SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नारायणविरचितदीपिकासमेताईशानमस्य जगतः स्वदृशमीशानमिन्द्र तस्थुष इति तस्मादुच्यत ईशानोऽथ कस्मादुच्यते भगवान्महेश्वरो यस्माद्भक्ता ज्ञानेन भजत्यनुगृह्णाति च वाचं संसृजति विसृजति च यः सर्वान्भावान्परित्यज्याऽऽत्मज्ञानेन योगैश्वर्येण महति महीयते तस्मादुच्यते भगवान्महेश्वरस्तदेतद्रुद्रचरितम् ॥ ४ ॥ एंपोऽह देवः प्रदिशो नु सर्वाः पूर्वो ह जातः स उ गर्भे अन्तः। स एव जातःस जनिष्यमाणः प्रत्यङ्जनास्तिष्ठति सर्वतोमुखः । एको रुद्रो न द्वितीयाय तस्थौ य इमाल्लोकानीशत ईशनीभिः । ज्ञानेनेति । यद्वा भक्ता भक्ताज्ञानेन भनति सेवतेऽनुगृह्णाति चेति भगशब्दार्थः । वाचं वेदाख्यां संसृजति । ब्रह्मादिमुखे विसृजति स्वमुखादिति चशब्दार्थः । महेश्वरश. दार्थमाह । य इति । भावांविषयान्परित्यज्य त्याजयित्वा वेदमुपदिश्य तदर्थबोधनद्वारा विषयवैरस्यमुत्पाद्याधिकारिणं कृत्वा दत्तेनाऽऽत्मज्ञानेन मनस्थिरतायै चाष्टाङ्गयोगजन्यैश्वर्येण च भक्तान्महति पूजयति तेन परानुग्रहण च महीयते महिमानं याति जगद्विख्यातयशा भवति । तेन भगवान्महेश्वरोऽक्षरसाम्येन निब्रूयादिति न्यायेनेदं निर्वचनम् । ननु परब्रह्मपर्यायादारभ्योच्चार्यमाण एवेति कस्मान्नोक्तमत आह । तदेतद्रुद्रचरितमिति । नामनामिनोरैक्यबोधनायोंकारोपक्रमश्चरितं त्वादित आरभ्य तद्रुद्रस्यैवै. तद्वर्णितमित्यर्थः ॥ ४ ॥ ईशस्य प्रतिज्ञातमैक्यमुपपादयितुं साधनानि च वक्तुमवयवशः प्रणवस्योपासनायाः पृथक्फलानि प्रतिपाद्येशभक्तिप्रधानेन ज्ञानेनैव परमपुरुषार्थसिद्धिरिति प्रतिपादयितुं चोत्तरः खण्ड आरभ्यते । एषोऽह देव इति । एष एव देवः सर्वा दिशः प्रजातः सर्वदिग्रुपो बभूव दिग्ग्रहणं तत्स्थवस्तूनामुपलक्षणम् । ननु कथमेकस्यानेकत्वसंभव इत्याशङ्कय सर्वाश्चर्ये भगवति किं किमपूर्व नै संभवतीत्याशयेन परिहरति । पूर्वो ह इति । पूर्वः स उ स एव गर्भे जगतो मध्यावस्थायां स एवान्तोऽपि सर्वान्ते वर्तमानः स एव । उत्पत्त्याधुपाधिना कालविरोधं परिहरति । स एवेति । ननु कथमस्यानुभव इत्याश याऽऽह । प्रत्यङिति । हे जना आबालस्त्रीगोपालीः सर्वजनीनमनुभवं पश्यतेति श्रुतेर्वचः । कि तत् । सर्वतोमुख आदित्यवत्सर्वेषां संमुखः प्रत्यगवस्थात्रयानुभूयमानाहंप्रत्ययवेद्यात्मरूपेण तिष्ठति यः स ईशः । द्वितीयगन्धमपि निषेधति । एक इति । 'स द्वितीयमैच्छत्' इति श्रुतेः प्राप्तां सहायापेक्षां निषेधति । न द्वितीयाय तस्थाविति । १ क. च, ति वा । २ क. ख. च. एको ह । ३ख. ज. न भ। ४ ख. °लाः सार्व'। ५ ख. कि ननु कथं स । ज. किं ननु स । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy