SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अथर्वशिरउपनिषत् । रमपरं परायणं च बृहबृहत्या बृहयति तस्मादुच्यते परं ब्रह्माथ कस्मादुच्यत एको यः सर्वान्प्राणान्संभक्ष्य संभक्षणेनाजः संसजति विसृजति च । तीर्थमेके व्रजन्ति तीर्थमेके दक्षिणाः प्रत्यञ्च उदश्चः प्राश्चोऽभिवजन्त्येके तेषां सर्वेषामिह संगतिः साकं स एको भूतश्चरति प्रजानंस्तस्मादुच्यत एकोऽथ कस्मादुच्यते रुद्रो यस्मादृपिभिर्नान्यैर्भक्तैर्दुतमस्य रूपमुपलभ्यते तस्मादुच्यते रुद्रोऽथ कस्मादुच्यत ईशानो यः सर्वान्देवानीशत ईशनीभिर्जननी भिश्च शक्तिभिः । अभि त्वा शर नोनुमोऽदुग्धा इव धेनवः । महति तमस्यविद्यायां द्योतयते तन्निरासेन ब्रह्मप्रकाशं करोति तद्वैद्युतम् । परमपरं निर्गुणं सगुणं च परायणं परमा गतिस्तस्मात्परमित्यन्वयः । ब्रह्मशब्दनिमित्तमाह । बृहदिति । यस्माबृहन्महत्तस्माद्ब्रह्मेत्यन्वयः । निमित्तान्तरमाह।बृहत्येति। बृहत्या मायया बृहयति वर्धयति कार्य तेन परं ब्रह्मोंकारः । यः सर्वान्प्राणान्प्राणाभिव्यङ्गयान्वेदान् । अर्थपक्षे वागादीन्संभक्ष्य संहारकाल आत्मन्युपसंहृत्य संभक्षणेन कृत्वा संसृजति तेरेकीभवति "स्वयं त्वजो वाचा विरूपनित्यया" इति मन्त्रलिङ्गात् “नित्यं विज्ञानम्" इति श्रुतेश्च । पुनः सिसृक्षायां विसृजति चेति कार्यकारणयोरभेदान्मृदादिवदेकः। अत एव कृते तु प्रणवो वेद इत्याद्युपपन्नम् । कारणत्वेनैक्यमुक्त्वा फलत्वेनाप्यैक्यं मन्त्रेणाऽऽह । तीर्थमिति । तीर्थमुपायस्तद्वजनमनुष्ठानम् । दिक्चतुष्कग्रहणं तन्नानात्वोपलक्षणार्थम् । नानामागैरप्युपायैः सर्वेषामिहेश्वरे संगतिः फलत्वेन प्राप्तिः साकं सहैव स एको भूतः सिद्धश्चरति सृष्टया प्रवर्तते भक्षयति वा प्रजानशुभाशुभकर्मविपाकम् । तदुक्तं कविभिः "बहुधाऽप्यागमैभिन्नाः पन्थानः सिद्धिहेतवः । त्वय्येव निपतन्त्योषा जाह्नवीया इवार्णवे" इति । वाच्यधर्मेण वाचको व्यवह्रियते । ऋषिभिर्जानिभिर्द्रतं गम्यत इति रुद्रः । ईशत ईष्ट इतीशानः । ईश्यत आभिरितीशन्यस्ताभिर्देवान्स्वेच्छया नियुनक्ति । अजातानां नियोगासंभवाज्जननीभिश्च शक्तिभिर्जनयन्नीष्टे । ईशानत्वे मन्त्रसंमतिमाह । अभीति । हे शूरेन्द्र परमेश्वर त्वा त्वामभि नोनुम आभिमुख्येनातिशयेन स्तुमः । अदग्या दग्यरहिताः पयोर्थिनो वत्सा धेनवो दोग्ध्रीर्गा इव स्तुवन्ति । द्वितीयार्थे प्रथमा । अदुग्वाः प्रेस्तुता धेनवो वत्सानिवेति न व्याख्यातम् । स्नेहसाम्येऽप्युपासकस्य मातृतोपास्यस्य वत्सतेति हीनोपमादोषप्रसङ्गात् । जगतो जङ्गमस्य तस्थुषः स्थावरस्येशानम् । आदरार्थः पुनः प्रयोगः । स्वदृशं दिव्यदृष्टिम् । भक्ता भजनकर्ता तस्यैवार्थो १ ख. प्रवर्त्य । २ ख. प्रस्नुता। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy