SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नारायणविरचितदीपिकासमेताअथ कस्मादुच्यत ओंकारो यस्मादुच्चार्यमाण एव प्राणानूर्ध्वमुत्क्रामयति तस्मादुच्यत ओंकारोऽथ कस्मादुच्यते प्रणवो यस्मा. दुच्चार्यमाण एव ऋग्यजुःसामाथर्वाङ्गिरसो ब्रह्म ब्राह्मणेभ्यः प्रणामयति नामयति च तस्मादुच्यते प्रणवोऽथ कस्मादुच्यते सर्वव्यापी यस्मादुच्चार्यमाण एव यथा स्नेहेन पललपिण्डमिव शान्तरूपमोतप्रोतमनुप्राप्तो व्यतिसृष्टश्च तस्मादुच्यते सर्वव्याप्यथ कस्मादुच्यतेऽनन्तो यस्मादुच्चार्यमाण एव तिर्यगूर्ध्वमधस्ताच्चास्यान्तो नोपलभ्यते तस्मादुच्यतेऽनन्तोऽथ कस्मादुच्यते तारं यस्मादुच्चार्यमाण एव गर्भजन्मव्याधिजरामरणसंसारमहाभयात्तारयति त्रायते तस्मादुच्यते तारमथ कस्मादुच्यते शुक्लं यस्मादुच्चार्यमाण एव क्लन्दते क्लामयते तस्मादुच्यते शुक्लमथ कस्मादुच्यते सूक्ष्मं यस्मादुच्चार्यमाण एव सूक्ष्मो भूत्वा शरीराण्यधितिष्ठति सर्वाणि चाङ्गान्यभिमृशति तस्मादुच्यते सूक्ष्ममथ कस्मादुच्यते वैद्युतं यस्मादुच्चार्यमाण ऐवाव्यक्ते महति तमसि द्योतयते तस्मादुच्यते वैद्युतमथ कस्मादुच्यते परं ब्रह्म यस्मात्पपर्यायत्वशङ्कानिवृत्तये त्रयोदशानामपि प्रवृत्तिनिमित्तभेदं पृच्छति । अथेति । ऊर्वोत्क्रामशब्दयोरोंकार इति निपातनम् । उपायस्योपायान्तराविरोधान्न व्याकरणविरोधः शङ्कयः । एवमुत्तरेप्वपि । चतुर्वेदात्मकं ब्रह्माध्येतृभ्यः प्रणामयति प्रणतं ननं करोति नामयति न्यक्करोति तत्तन्त्रमिव करोति स प्रणवः । पललं तिलपिष्टं तस्य पिण्डं गुटिका । इवशब्दो वाक्यालंकारे। यथा तिलपिष्टपिण्डं सर्वतः स्नेहेन तैलेन व्याप्तमेवं पटे तन्तुवत्कार्यमात्रमोतं प्रोतं च तेन वितानभावमापन्नं शान्तरूपं ब्रह्मोचार्यमाणो वाचा प्रयुक्तः प्रतीत एव सन्न तु मत्युप्राप्तोऽभेदमापन्नः प्रतिमेव देवेन तथा वाच्यवाचकभावेन व्यतिसृष्टः संबद्धः सवागतं ब्रह्म तद्रूपेण व्याप्नोति तद्वाचकतया वा संबध्नाति स सर्वव्यापीत्यर्थः । “पुललं तिलचूर्णं स्यात्पललं पङ्कमांसयोः” इति विश्वः । एवं प्रणवस्य सर्वव्यापित्वादिकमर्थाभेदविवक्षया द्रष्टव्यम् । उच्चार्यमाणेऽस्मिन्नस्योंकारस्यान्तो ब्रह्मैक्यान्नोपलभ्यते तेनानन्तः । आशु क्लन्दते क्रन्दते ध्वनिरूपेण व्यज्यते क्लामयति वोदात्ततयोच्चारणे प्रयत्नाधिक्याच्छरीरं क्लमयुक्तं करोति तच्छुक्लम् । पूर्वोत्तरपदयोराद्यन्तलोपः । अथ सूक्ष्मो भूत्वाऽङ्कुरावस्थामेवाऽऽप्य शरीराणि देहावयवान्स्वहेतुप्राणाभेदेन ब्रह्माभेदेन वाऽधितिष्ठत्यारोहत्यभिमशति संबध्नाति व्याप्नोति च तस्मात्सक्ष्मम् | अव्यक्ते १ क. तिषक्तश्च । च. तिषिक्तश्च । २ क. च. एव व्य' । ३ क. च. द्योतयति । ४ छ. ज. "पि वृ । ५ ख, तीतुरेव । ६ ख. मृत्युं प्रा । ७ छ. ज. सर्वात्मकं । ८ छ. प्रयत्नाभेदेन । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy