SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११ अथर्वशिरउपनिषत् । ग्राह्यमग्राह्येण भावं भावेन सौम्यं सौम्येन सूक्ष्मं सूक्ष्मेण वायव्यं वायव्येन ग्रसति तस्मै महाग्रासाय वै नमो नमः । हदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः । हृदि त्वमसि यो नित्यं तिस्रो मात्राः परस्तु सः। तस्योत्तरतः शिरो दक्षिणतः पादौ य उत्तरतः स ओंकारो य ओंकारः स प्रणवो यः प्रणवः स सर्वव्यापी यः सर्वव्यापी सोऽनन्तो योऽनन्तस्तत्तारं यत्तारं तच्छुक्लं यच्छुक्लं तत्सूक्ष्मं यत्सूक्ष्मं तद्वैद्युतं यद्वैद्युतं तत्परं ब्रह्म यत्परं ब्रह्म स एको य एकः स रुद्रो यो रुद्रः स ईशानो य ईशानः स भगवान्महेश्वरः ॥ ३ ॥ ग्राह्यं देहभावापन्नमग्राह्येण कालरूपेण ग्रसति । तथा भावादिकं तेनैव रूपेण ग्रसति । स्थूलस्य सूक्ष्मेऽन्तर्धानात्सौम्यमतिसौम्येन सूक्ष्ममतिसूक्ष्मेण ग्रसति । उत्कृष्टेन निकृ. ष्टस्य सजातीयस्य ह्यवनाद्वायव्यं प्राणाख्यं वायव्येन बाह्यवायुरूपेण । महापासायोक्तप्रकारेण भक्षकाय मृत्युमृत्यवे । हृदिस्था अन्तःकरणवर्तिन्यो देवता इन्द्रियाधिष्ठा. तारः प्राणा वागादयः । त्वमन्तर्यामिरूपेण यो हृदि नित्यमसि तस्मै नमो नम इत्यन्वयः । अत एव स्वप्नेऽन्तःकरणेनैव सर्वेन्द्रियव्यवहारः । इत्युक्त्वा ध्यानेन देवा उपरताः । इदानीं श्रुतिराख्यायिकारूपं संहत्य स्वेन रूपेणाऽऽह । तिस्त्र इति । तिस्रो मात्रा अकारोकारमकाराः सर्ववेदमय्यः परस्त्वर्धमात्रात्मकः स शिवः । तस्येति मात्रा. त्रयातीतो हृदि त्वमसीत्युक्तं तत्र संदेहः कस्यां दिशि तस्य शिरः कस्यां वा पादा. वित्यत उक्तम् । तस्य परस्य हृदिस्थस्योत्तरतः शिरो वर्बते तेनोत्तरमार्गेण गतानां गतप्रत्यागते न भवतो रुद्रमुखादुपदेशलाभात् । दक्षिणतः पादौ तेन दक्षिणमार्गगा. मिनां गतागते भवतः पादयोर्गमनशीलत्वात् । य उत्तरतः स ओंकारस्तेनोंकारोपासका उत्तरेण यान्ति । य ओंकारः स प्रणव इति । तथा प्रसिद्धेः । सर्वव्यापी सर्वव्यापिब्रह्मवाचकत्वात् । स्फोटब्रह्मपक्षे तस्यैव सर्वव्यापकत्वम् । सोऽनन्तोऽन्यथा सर्वव्याप्त्यसंभवात्। तारं तारकं शुक्लं निर्मलं सूक्ष्ममिन्द्रियाद्यग्राह्यम् । कथं तर्हि तद्भानमत उक्तम् । तद्वै स्वप्रकाशं परं ब्रह्म सर्वबृहत् । अन्येषामात्मलाभस्य तदधीनत्वात् । अत एवैकः । अन्य त्मनस्तदायत्तत्वेन तदनतिरेकात् । स रुद्र एको रुद्र इति मन्त्रवैर्णितः । ईशानः स्वतन्त्रोऽत एव भगवान्षड्विधैश्वर्यसंपन्नोऽत एव महानीश्वरोऽनवधिकैश्चर्यः । सर्वेऽप्येते शब्दाः प्रवृत्तिनिमित्तभेदेऽप्येकार्थाः समानाधिकरणवत् ॥ ३ ॥ १ ख. छ. ज. 'स्य न ह्यावचना' । २ ख. छ. ज. स्वप्नोऽन्तः । ३ छ. ज. र्वदेवमयः । ४ छ. यातायाते । ५ छ. ज. वरणात् । । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy