________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नारायणविरचितदीपिकासमेताभगवान्यच्च शुक्लं तस्मै वै नमो नमः २७ ॐ यो वै रुद्रः स भगवान्यच्च कृष्णं तस्मै वै नमो नमः २८ ॐ यो वै रुद्रः स भगवान्यच्च कृत्स्नं तस्मै वै नमो नमः २९ ॐ यो वै रुद्रः स भगवान्यच्च सत्यं तस्मै वै नमो नमः ३० ॐ यो वै रुद्रः स भगवान्यच्च सर्व तस्मै वै नमो नमः ३१ ॥२॥
भूस्त आदिमध्यं भुवस्ते स्वस्ते शीर्ष विश्वरूपोऽसि ब्रह्मैकस्त्वं द्विधा त्रिधा बद्धस्त्वं शान्तिस्त्वं पुष्टिस्त्वं हुतमहुतं दत्तमदत्तं सर्वमसर्व विश्वमविश्वं कृतमकृतं परमपरं परायणं च त्वम् । अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् । किमस्मान्कणवदरातिः किमु धूर्तिरमृतं मर्त्य च । सोमसूर्यः पुरस्तात्सूक्ष्मः
पुरुषः सर्वं जगद्धितं वा एतदक्षरं प्राजापत्यं सौम्यं सूक्ष्मं पुरुषं स्तुतः । अत्र यमपर्यायानन्तरमन्तकपर्यायोऽपि पठनीयस्तेन त्र्यम्बकमन्त्राक्षरसंख्यया द्वात्रिंशत्पर्याया भवन्ति ॥ २ ॥
विरारूपेण स्तुतिमाह । भूरिति । आदिः पादौ मध्यमुदरं ब्रह्मरूपेणैकस्त्वं द्विधा बद्धः सदसद्रूपेण त्रिधा बद्धो गुणत्रयभेदेन । हुतमहुतमित्यादि सदसद्रूपताविवरणम् । परायणं परमयनं स्थानम् । अपाम सोममिति । त्वयि दृष्टे सर्वं सिद्धमित्यर्थः । सर्वकर्मफलस्येश्वरदर्शनेऽन्तर्भूतत्वात् । तदुक्तम्- “यावानर्थ उदपाने सर्वतः संप्लुतोदके ।
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः" इति । अविदामेति । 'यस्मिन्विज्ञाते सर्वमिदं विज्ञातं भवति' इति श्रुतेः । कृणवच्छिन्दनरातिः शत्रुरस्मान्प्रति किं न किंचिदित्यर्थः । धूर्तिर्हिसाऽप्यस्माकं किम् । त्वदभिरक्षितानां त्वद्रूपमापन्नानां हिंसाकृतदोषाभावात् । यद्गीतासु-'हत्वाऽपि स इमाल्लोकान्ने हन्ति न निबध्यते' इति । अथवा शत्रुकृता हिंसा त्वच्छरणानस्मान्न स्पृशतीत्यर्थः । अमृतमादेयं मयं हेयं च त्वदाप्त्या कृतार्थानो नो नास्तीत्यर्थः । सोमश्वासौ सूर्यश्च सोमसूर्यः । यतः पञ्चभूतानि सोमसूर्यो यजमानश्चेत्यष्टमूतिरीश्वरस्तेनोभयात्मक एकः पुरस्तात्पूर्वस्यामदेतीति शेषः । सूक्ष्मो यः पुरुषः स एव सर्व स्थूलं संपन्नः । ननु सर्वभावापत्त्या किमर्थं सृष्टिं तनोतीत्यत आह । जगदिति । जगतां हितं जगद्धितं वा एतदक्षरं ब्रह्म जीवभोगापवर्गार्थं कृपया सृष्टिरिति भावः । ततः प्राजापत्यं प्रजापतिरूपेण पालितम् । सौम्यं सोमोऽन्नं तद्रूपेणाऽऽप्यायितं सूक्ष्मं पुरुषं जीवं
१ क. 'न् । किं नुनम । २ क. च. °मृतमर्त्यस्य । सो । ३ छ. ज. तेः । क्षण । ४ छ. 'म विहन्ति न ब । ५ ख. नां ना । ६ ख. 'यात्मैकः । ७ ख. सर्वाभाप । ८ ख. तत्र ।
For Private And Personal