________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२६३
ध्यानबिन्दूपनिषत् । अनाहतं चेति । सर्वत्र स्वरूपापेक्षं नपुंसकत्वम् । तस्य शब्दस्य यत्परं कारणं शक्तिस्तत्परं तस्यापि परं सच्चिदानन्दरूपं यो विन्दते स च्छिन्नसंशयो नष्टसंदेहः । " भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः " इत्यादिश्रुतेः ॥ ३ ॥ तस्यात्यन्तं सूक्ष्मतामाह
वालाग्रशतसहस्रार्ध तस्य भागस्य भागशः ॥
भागस्य तस्य भागाधू तज्ज्ञेयं च निरञ्जनम् ॥ ४ ॥ वालाग्रेति । शतसहस्रार्धं लक्षार्धं तस्य भागस्य भागशो भागे सति तस्य भागस्य भागार्ध भागस्य यो भागस्तस्याधं तन्निरञ्जनं शुद्धं ब्रह्म ज्ञेयम् । सर्वपरिमाणानाश्रयत्वेऽपि दुर्लक्षत्वप्रतिपादनायातिसूक्ष्मत्वोक्तिः ॥ ४ ॥
पुष्पमध्ये यथा गन्धं पयोमध्ये यथा घृतम् ॥
तिलमध्ये यथा तैलं पाषाणेष्विव काञ्चनम् ॥५॥ पुष्पेति । पुष्पमध्ये यथा गन्धं गन्धस्वरूपं वर्तते एवमिदं गन्धस्थानीयदेहादिषु वर्तत इति शेषः ॥ ५ ॥ ननु तहिं देहादयः क्व वर्तन्तेऽत आह
एवं सर्वाणि भूतानि मणिसूत्रमिवाऽऽत्मनि ॥
स्थिरबुद्धिरसंमूढो ब्रह्मविद्रह्मणि स्थितः ॥ ६ ॥ एवमिति । एवमनेन प्रकारेण । यथा सर्वेषु भूतेष्वात्मा वर्तत एवं सर्वाणि भूतान्यात्मनि वर्तन्ते । अत्रापि दृष्टान्तमाह-मणिसूत्रमिवेति । समाहारद्वंद्वः । यथा सूत्रे मणयो वर्तन्ते तद्वदित्यर्थः । तदुक्तम्- "सर्वभूतेषु यः पश्येद्भगवद्भावमात्मनः ।
भूतानि भगवत्यात्मन्येष भागवतोत्तमः” इति । तथा-"मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव" इति ॥ ६ ॥ ध्यानाभ्यासप्रदर्शनायोक्तस्यापि पुनरभिधानम् ।
तिलानां तु यथा तैलं पुष्पे गन्धमिवार्पितम् ।।
पुरुषस्य शरीरे तु सबाह्याभ्यन्तरे स्थितम् ॥ ७ ॥ तिलानां त्विति । तिलानां मध्ये यथा तैलमर्पितं व्यवस्थितमिति ब्रह्म वर्तत इति शेषः ॥ ७ ॥ ननु कथं सत्यादसत्योद्भव इत्याशङ्कय दृष्टान्तेन वारयति
वृक्षं तु सकलं विद्याच्छाया तस्यैव निष्कला ।। वृक्षमिति । सकलं पूर्ण यथार्थम् । निष्कलाऽऽकृतिमात्रं न पारमार्थिकी ।
१ ख. ग. तसाह । २ ख. तसाह ।
For Private And Personal