SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २६२ नारायणविरचितदीपिकासमेता नुविद्धा सती ध्वनिशब्दवाच्याऽक्षरावस्था सैव तमोनुविद्धा नादशब्दवाच्याऽव्यक्तावस्था सैव तमः प्राचुर्यान्निरोधिकाशब्दवाच्या सैव सत्त्वप्राचुर्यादर्धेन्दुशब्दवाच्या तदुभयसंबन्धाद्विन्दुशब्दवाच्याऽसावेव बिन्दुर्मूलाधारेऽभिव्यक्तः परा नाम स्वाधिष्ठाने पश्यन्ती हृदि मध्यमा जिह्वायां वैखरीति । तदुक्तम् — “सूक्ष्मा कुण्डलिनी मध्ये ज्योतिर्मात्रास्वरूपिणी । अश्रोत्रविषया तस्मादुद्गच्छन्त्यूर्ध्वगामिनी ॥ स्वयंप्रकाशा पश्यन्ती सुषुम्नामाश्रिता भवेत् । सैव हृत्पङ्कजं प्राप्य मध्यमा नादरूपिणी ॥ ततः संकल्पमात्रा स्यादविभक्तोर्ध्वगामिनी । सैवोरः कण्ठतालुस्था शिरोघ्राणरदस्थिता ॥ जिह्वामूलोष्ठ निष्ठधूतरूपवर्णपरिग्रहा । शब्दप्रपञ्चजननी श्रोत्रग्राह्या तु वैखरी" इति ॥ Acharya Shri Kailashsagarsuri Gyanmandir परशक्तिरूपत्वात्परा । ज्ञानात्मकत्वात्पश्यन्ती । मध्या मा बुद्धिर्यस्याः सा मध्यमा हिरण्यगर्भस्थानीया । विशेषेण खरत्वाद्वैखरी विराट्स्थानीया । निरोधिकाऽग्निशि वरूपा । अर्धेन्दुः सोमशक्तिरूपः । तदुभयसंयोगः सूर्यरूपो बिन्दुः । तत्र शब्दसृष्टौ प्रणवस्याकारोकारमकाराः क्रमेण रुद्रब्रह्मरमाधिपा इच्छाक्रियाज्ञानशक्त्यात्मानो वह्नीन्द्वर्कस्वरूपिणो रौद्री ज्येष्ठावामाशक्तिरूपा गौरीब्राह्मीवैष्णवीरूपा बिन्दुनादबीजरूपा निरोधिकार्धेन्दु बिन्दुसंज्ञाः शक्तेरेवावस्थाविशेषा द्रष्टव्याः । भर्थसृष्टी तु ब्रह्मविष्णुरुद्राः सूर्येन्दुपावका इत्येवं क्रमा इति विशेषः । मकारात्पराणि तु प्रणवस्य बिन्दुनादशक्तिशान्ताख्यानि रूपाणि त्रीणि शक्तेरवस्थाविशेषाः । सप्तमी शान्ताख्या ब्रह्मावस्था । तत्र षण्णां देवता ब्रह्मविष्णुरुद्रेश्वरसदाशिव सर्वेश्वराः । शक्तिशान्तास्थे त्यक्त्वा पञ्चधात्वपक्षे तु - "ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरः शिव एव च । पञ्चधा पञ्चदेवत्यः प्रणवः परिकीर्तितः " ॥ इत्यथर्वशिखोक्ताः पञ्च देवता द्रष्टव्याः । क्वचिद्यत्यासेन देवताकथनं सर्गभेदादेवेत्यपि द्रष्टव्यम् । प्रकृतमनुसरामः । सुष्ठु शब्दो नादो यस्मात्तत्सुशब्दं शक्तिरूपं तदपि परे स्थितमर्थान्नादादेवाकारादिशक्त्यन्ते तस्मिन्नक्षरे क्षीणे सति निःशब्दं परमं पदं वर्तते शान्ताख्यं परं ब्रह्म ॥ २ ॥ उक्तमेव स्पष्टयति अनाहतं च यच्छब्दं तस्य शब्दस्य यत्परम् ॥ तत्परं विन्दते यस्तु स योगी छिन्नसंशयः ॥ ३ ॥ For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy