SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ध्यानबिन्दूपनिषत् । २६१ स च बिन्दुः शिवशक्त्युभयात्मकः क्षोभ्यक्षोभकसंबन्धरूपश्चेति त्रिविधः । शिवास्मतया बिन्दुसंज्ञः शक्त्यात्मतया बीजसंज्ञः संबन्धरूपेण नादसंज्ञः । एतौ नादबिन्दू पूर्वोक्तनादबिन्दुभ्यामन्यौ तत्कार्यरूपौ । एभ्यस्त्रिभ्यस्तिस्त्रः शक्तयो जाता बिन्दो रौद्री नादाज्ज्येष्ठा बीनाद्वामा। तदुक्तम्- "बिन्दुः शिवात्मकस्तत्र बीजं शक्त्याऽऽत्मकं स्मृतम् । तयोर्योगे भवेन्नादस्तेभ्यो जातास्त्रिशक्तयः" इति ॥ ताभ्यःक्रमेण रुद्रब्रह्मरमाधिपा जातास्ते क्रमेणेच्छाशक्तिक्रियाशक्तिज्ञानशक्तिस्वरूपाः। वहीन्द्वस्वरूपिणो निरोधिकार्धेन्दुबिन्दुरूपाः शक्तेरेवावस्थाविशेषाः । एषामिच्छाक्रियाज्ञानात्मत्वं शक्तित उत्पन्नत्वादाद्यबिन्दोरखण्डो नादमात्रं शब्दब्रह्मात्मा ख उत्पन्नः । तदुक्तम्-"क्रियाशक्तिप्रधानायाः शब्दशब्दार्थकारणम् । प्रकृतेविन्दुरूपिण्याः शब्दब्रह्माभवत्परम्" इति । स शब्दब्रह्म न तु शब्दार्थरूप आन्तरः स्फोटः शब्दरूपो वा बाह्यस्फोटः शब्दब्रह्म तयोर्जडत्वाद्ब्रह्मशब्दानहत्वात्किंतु चैतन्यमेव शब्दब्रह्म । तदुक्तम्-"अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः" इति ।। तद्विन्दुरवस्यैव सर्वशरीरेषु बिन्दुत्वेनाऽऽविर्भावः । तदुक्तम्- "सोऽन्तरात्मा तदा देवो नादात्मा नदते स्वयम् ॥ यथासंस्थानभेदेन स भूयो वर्णतां गतः । वायुना प्रेर्यमाणोऽसौ पिण्डाब्यक्तिं प्रयाति हि" इति । शब्दब्रह्मैव परा नाम शब्दावस्था सैव च चैतन्यरूपा कुण्डली शक्तिस्ततः पश्यन्त्या. दिरूपेण वेदराशिराविर्भवति । इयं शब्दसृष्टिः । अथार्थसृष्टिः । शंभोः शक्तिभावमापन्नान्नादरूपकालसहायान्मायाघनबिन्दुरूपमापन्नात्सृष्टिस्थितिध्वंसनिग्रहानुग्रहकार्यपञ्चककर्ताऽत एव जगन्निर्माणबीजरूपो जगत्साक्षी सदाशिवो जातः। ततः क्रमेणेशरुद्रविष्णुब्रह्माण उत्पन्नाः । सर्वसृष्टिमूलरूपादव्यक्तात्सृष्टयुन्मुखाद्विन्दोर्महांस्ततोऽहंकारः स त्रिधा । ततो वैकारिका देवास्तैजसादिन्द्रियाणि भूतादेस्तत्मात्रद्वारा पञ्चभूतानि ततो विराडित्यर्थसृष्टिः । तत्र शब्दसृष्टिक्रमः "शक्तिस्ततो ध्वनिस्तस्मान्नादस्तस्मान्निरोधिका । ततोऽर्धेन्दुस्ततो बिन्दुस्तस्मादासीत्परा ततः ॥ पश्यन्ती मध्यमा वाचा वैखरी सर्गजन्मभूः" इति । तत्र सत्त्वप्रतिष्ठा चिच्छक्तिशब्दवाच्या परमाऽऽकाशावस्था सैव सत्त्वप्रतिष्ठा रजो १ घ. षु शब्दत्वे । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy