SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २६० www.kobatirth.org नारायणविरचितदीपिकासमेता - तदुक्तं शारदातिलके "सच्चिदानन्दविभवात्सकलात्परमेश्वरात् । आसीच्छत्तिस्ततो नादो नादाद्विन्दुसमुद्भवः” इति ॥ अत्र शब्दार्थसृष्टिद्वारा प्रणवसृष्टिरुच्यते । सनातनं नित्यं ब्रह्म निर्गुणं सगुणं च । तत्र निर्गुणं यथा 9 “नित्यः सर्वगतः सूक्ष्मः सदानन्दो निरामयः । विकाररहितः साक्षी शिवो ज्ञेयः सनातनः " ॥ तथा—“निष्क्रियं निर्गुणं शान्तमानन्दमजमव्ययम् । अजरामरमव्यक्तमज्ञेयमकलं ध्रुवम् ॥ ज्ञानात्मकं परं ब्रह्म स्वसंवेद्यं हृदि स्थितम् । सत्यं बुद्धेः परं नित्यं निर्मलं निष्कलं स्मृतम्” इति ॥ सगुणं तु शक्तियुक्तम् | यदुक्तम् Acharya Shri Kailashsagarsuri Gyanmandir "तच्छक्तिभूतः सर्वेशो भिन्नो ब्रह्मादिमूर्तिभिः । कर्ता भोक्ता च संहर्ता सकलः स जगन्मयः" इति ॥ तत्र सृष्टिक्रमः । आदौ सच्चिदानन्दालीना शक्तिरुच्छूनरूपतयाऽभिव्यक्ता पार्थक्येन व्यवहार्याऽभूत् । तदुक्तम् — “तस्माद्विनिर्गता नित्या सर्वगा विश्वसंभवा" इति । तथा - " शिवेच्छया परा शक्तिः शिवतत्त्वैकतां गता ॥ ततः परिस्फुरत्यादौ सर्गे तैलं तिलादिव" इति च तस्याः शक्तेर्नादस्तस्या एवोत्तरावस्थारूपः पुंस्कालादिव्यपदेशार्हः । तदुक्तम् - " नादात्मना प्रबुद्धा सा निरामयपदोन्मुखी । शिवोन्मुखी यदा शक्तिः पुंरूपा सा तदा स्मृता " इति ॥ नादो बिन्दुस्तस्या एव घनीभावः क्रियाप्रधानो बिन्दुः । तदुक्तम् - " सा तत्त्वसंज्ञा चिन्मात्र ज्योतिषः संनिधेस्तदा ॥ विचिकीर्षुर्घनीभूता क्वचिदभ्येति बिन्दुताम्" इति । तथा -- " अभिव्यक्ता परा शक्तिरविनाभावलक्षणा ॥ अखण्डापरचिच्छक्तिर्व्याप्ता चिद्रूपिणी विभुः । समस्ततत्त्वभावेन विवर्तेच्छासमन्विता || प्रयाति बिन्दुभावं च क्रियाप्राधान्यलक्षणम्" इति । १ ख. नित्यस । २ ख. मता । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy