SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॐ तत्सब्रह्मणे नमः। ध्यानबिन्दूपनिषत् । नारायणविरचितदीपिकासमेता । ध्यानबिन्दुविखण्डेयं विंशी ध्यानप्रधानिका । ध्यानस्य धारणादिभ्यो यदीत्याह विशिष्टताम् ॥ १॥ ध्यानस्य धारणादिभ्यो विशेषं वक्तुमिदमारभ्यते*ॐ यदि शैलसमं पापं विस्तीर्ण योजनान्बहून् ॥ भिद्यते ध्यानयोगेन नान्यो भेदः कथंचन ॥ १ ॥ यदीति । विस्तीर्णमिति । स्वकार्योपलब्ध्या विस्तारो गम्यते । अन्यो भेदो भेदको नाशको नास्ति । अत्र यदीत्यतः प्राक्श्लोकद्वयं कैश्चित्पठ्यते । तद्यथा-"ॐ योगतत्त्वं प्रवक्ष्यामि योगिनां हितकाम्यया । यच्छ्रुत्वा च पठित्वा च सर्वपापैः प्रमुच्यते ।। विष्णुनाम महायोगी महामायो महातपाः । तत्त्वमार्गे यथा दीपो दृश्यते पुरुषोत्तमः" इति ॥ तत ॐ यदि शैलसमं पापमित्यादि तत्तु योगतत्त्वोपनिषदादिभूतमत्र प्रमादपठितम् ॥ १॥ बीजाक्षरात्परं विन्दु नादं बिन्दोः परे स्थितम् । सुशब्दं चाक्षरे क्षीणे निःशब्दं परमं पदम् ॥ २॥ बीजेति । बीजाक्षरं स्पष्टाक्षरमकारादित्रयं पञ्चाशदर्णबीजाद्यामिति पीठाब्जकणिकायां वर्णानां बीजत्वात्तस्मात्परं बिन्दु बिन्दुवदक्षरं वर्तते बिन्दोः परे भागे नादं नादाक्षरं स्थितम् । * एतस्मात्प्राक् ‘योगतत्त्वं प्रवक्ष्यामि योगिनां हितकाम्यया । यच्छत्वा च पठित्वा च सर्वपापैः प्रयुच्यते । विष्णुर्नाम महायोगी महामायो महातपाः । तत्त्वमार्गे यथा दीपो दृश्यते पुरुषोत्तमः । इति श्लोकद्वयं क. ख. पुस्तकयोदृश्यते । १ क. ग. कदाच' । ३ घ. बिन्द्रक्ष। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy