SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २५८ नारायणविरचितदीपिकासमेता सर्वामिति । तद्ब्रह्म सर्व सर्वात्मकम् । अथ च परमम् । शून्यमसङ्गत्वात् । परं न परं यस्मात्तन्निषेधार्थेन नकारेण बहुव्रीहिः । परमादथाऽऽकाशादेः परम् । अतः परतरं नान्यदिति स्मृतेः । अप्रबुद्धं जागरव्यापाररहितम् । तत्सत्यं न संविदुरिति नापि तु सत्यं विदन्त्येव मुनीनामृषीणां तत्त्वभावेन युक्तमादरणीयम् । न देवा इति । देवाः परं न विदुरिति नापि तु विदुरेव । साधनानि पूर्वमुक्तानि ॥ ११ ॥ संप्रत्यसाधनान्याह--- लोभं मोहं भयं दर्प कामं क्रोधं च किल्बिषम् । शीतोष्णं क्षुत्पिपासं च संकल्पं च विकल्पकम् ॥ न ब्रह्मकुलदर्प च न मुक्तिं ग्रन्थसंचयम् ॥ १२ ॥ लोभमिति । लोभं श्रिता न विदुरित्यन्वयः । शीतोष्णं श्रिताः कातरा न विदु. र्वयं ब्रह्मकुले जाता इति दर्प श्रिता न विदुः । मुक्तिग्रन्थानां संचयं समूहं श्रिता न विदुः ॥ १२ ॥ न भयं सुखदुःखं च तथा मानापमानयोः। एतद्भावविनिमुक्तं तदाह्यं ब्रह्म तत्परं तद्राह्यं ब्रह्म तत्परमिति ॥ १३ ॥ इत्यथर्ववेदे तेजबिन्दूपनिषत्समाप्ता ॥ १५ ॥ न भयमिति । पुनर्भयग्रहणं लोकलज्जाभयवन्तोऽपि न विदुरित्येवमर्थम् । मानाप. मानयोर्वर्तमाना न विदुः । एतदिति । एतै वैर्विनिर्मुक्तं रहितं प्रति तद्बाह्यं ब्रह्म एतद्भावसहितं लोभादिसहितं प्रति तद्ब्रह्म न ग्राह्यमित्यर्थः । तत्परं तच्च ब्रह्म परमुत्कृ. ष्टम् । तत्परं ब्रह्मनिष्ठं प्रति ग्राह्यमिति द्वितीयावृत्त्यर्थः । इतिशब्दः समाप्तौ ॥ १३ ॥ नारायणेन रचिता श्रुतिमात्रोपनीविना । अस्पष्टपदवाक्यानां दीपिका तेजबिन्दुके ॥ १॥ इति नारायणविरचिता तेजबिन्दूपनिषद्दीपिका समाप्ता ॥ २१ ॥ For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy