SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org तेजबिन्दुपनिषत् । २५७ त्र्यम्बकमिति । त्रयाणां लोकानामम्बकः पिता । यथा वा माता तथाऽम्बकः पिता । अथवा त्रयाणां वेदानामम्बको वक्ता त्र्यम्बकः । त्रयाणां लोकानां गन्ता वा । अबि गाव शब्द इति धातुभ्यां ण्वुल् । त्रिगुणं सत्त्वादिगुणत्रयोपेतम् । स्थानमाश्रयः । त्रिधातु यो लोका धातवो यस्य । अन्यदपि त्रयात्मकं सर्वमस्यैव धातवः ॥ ६ ॥ उपाधिरहितं स्थानं वायनोतीतगोचरम् ॥ स्वभावभावनाग्राह्यं संघातैकपदोज्झितम् ॥ ७ ॥ वाङ्मनोतीतगोचरं वाङ्मनसयोरतीतं गोचरं स्थानं यस्य तत्तथा । स्वभावेति कृत्रिमसंस्कारत्यागेन स्वाभाविकवस्तुभावनया ग्राह्यम् । संघातैकपदोज्झितं संघातवाचिना पदेनैकवाचिनां च पदेनोज्झितं त्यक्तं शब्दातीतत्वात् । यद्वा स्त्रीपुत्रादिसंघात एवैकं पदमाश्रयो यस्य रागिणस्तेनोज्झितं त्यक्तमगम्यत्वात् ॥ ७ ॥ Acharya Shri Kailashsagarsuri Gyanmandir आनन्दं नन्दनातीतं दुष्प्रेक्ष्यमजमव्ययम् || चित्तवृत्तिविनिर्मुक्तं शाश्वतं ध्रुवमच्युतम् ॥ ८ ॥ आनन्दं स्वयमानन्दरूपं नन्दनाऽन्यकृतानन्दस्तदतीतमन्येनास्याऽऽनन्दः कर्तुं न शक्यते । चित्तवृत्तिविनिर्मुक्तं विकारातीतत्वात् ॥ ८ ॥ ३३ तद्ब्रह्माणं तदध्यात्मं तनिष्ठा तत्परायणम् ॥ अचित्तचित्तमात्मानं तद्व्योम परमं स्थितम् ॥ ९ ॥ तद्ब्रह्माणं लिङ्गविभक्तिव्यत्ययो ब्रह्मेत्यर्थः । तदध्यात्मं तदेवाध्यात्ममात्मेत्यर्थः । तन्निष्ठा तदेव निष्ठा मर्यादा । तदुक्तम् - "मत्तः परतरं नान्यत्" इति । तत्परायणं परमयनम् । तदुक्तम् – “सा काष्ठा सा परा गतिः" इति । अचित्तचित्तं न चित्तं यस्य तादृशं चित्तं ज्ञानमात्मानमात्मरूपं परमं व्योम परमाकाशं स्थितं सर्वकार्येषु तत्परं नत्वासीनमलसवत् ॥ ९ ॥ अशून्ये शून्यभावं च शून्यातीतमवस्थितम् ॥ न ध्यानं न च वा ध्याता न ध्येयो ध्येय एव च ॥ १० ॥ अशून्ये पूर्णे स्वस्मिन्सति शून्यभावं शून्यत्वेन भाव्यमानं जडैर्वस्तुतः शून्यातीतम् । अवस्थितं पूर्णत्वात् । न ध्यानमिति । क्रियाकारकभावशून्यम् । अथ च ध्येय एव ध्यातव्यमेव । संसारिणां मुक्तिदत्वात् ॥ १० ॥ 1 सर्वे तत्परमं शून्यं न परं परमात्परम् । अचिन्त्यमप्रबुद्धं च न च सत्यं न संविदुः ॥ मुनीनां तत्त्वयुक्तं तु न देवा न परं विदुः ।। ११ । १ ख. मव्ययम् । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy