SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २५६ ६६ - नारायणविरचितदीपिकासमेतादुःसाध्यं च दुराराध्यं दुष्पेक्ष्यं च दुराश्रयम् ॥ दुर्लक्षं दुस्तरं ध्यानं मुनीनां च मनीषिणाम् ॥ २ ॥ एवंविधं यद्ध्यानं ततो दुःसाध्यं च । तदुक्तम्- "चञ्चलं हि मनः कृष्ण प्रमाथि बलवदृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्" इति ॥ अत एव तळ्यानं दुराराध्यं दुःसेव्यं दुष्प्रेक्ष्यं दुर्दर्श दुराश्रयं कष्टसाध्यविषयं दुर्लक्षं दुःखगम्यं दुस्तरं दुरन्तम् । न केवलमस्माकं मुनीनामपि मनीषिणां बुद्धिमताम् ॥ २ ॥ तर्हि प्राकृतस्यैव ध्यानप्राप्तौ किमन्तरङ्गसाधनमत आह जिताहारो जितक्रोधो जितसङ्गो जितेन्द्रियः॥ निद्वो निरहंकारो निराशीरपरिग्रहः ॥ ३॥ जितेति । हितमिताशी जिताहारः । हेयोपादेयानि द्वंद्वानि तेभ्यो निष्क्रान्तो निद्वंद्वः । समलोष्टाश्मकाञ्चन इत्यर्थः । निराशीर्वाञ्छारहितः ॥ ३ ॥ अगम्यगम्यकर्ता च गुरुमानार्थमानसः॥ मुखानि त्रीणि विन्दन्ति त्रिधामा हंस उच्यते ॥ ४ ॥ अगम्यगम्यकर्ता यदन्यैरगम्यं स्थलं तदपि प्रयत्नेन गम्यं करोति यः सः । गुरुमानार्थमानसः । गुरोर्मान(नः) पूजा स एवार्थः प्रयोजनं यस्य स गुरोर्माने चार्थे च मानसं साधनाय प्रवृत्तं यस्येति वा सोऽधिकारीत्यर्थः । मुखानि द्वाराणि त्रिसंख्यानि पूर्वोक्तानि वैराग्यमुत्साहो गुरुभक्तिश्चेति त्रीणि द्वाराण्येतद्ध्याने विन्दन्ति प्राप्नुवन्ति साधवः । तेन हंसस्त्रिधामा, उच्यते । त्रीणि धामानि प्राप्त्युपायस्य जायदादीनि वा ॥ ४ ॥ ध्यानं प्रशस्याधिकारिणं चोक्त्वा ध्येयस्वरूपमाह परं गुह्यमिदं स्थानमव्यक्तं ब्रह्म निराश्रयम् ॥ व्योमरूपं कलासूक्ष्मं विष्णोस्तत्परमं पदम् ॥५॥ परमिति । गुह्यं गुहामर्हति । अव्यक्तं सर्वजनाप्रतीतं ब्रह्म बृहत्त्वान्निराश्रयं सर्वाधारत्वात्कला कलात्मकं विष्णोः सत्त्वोपाधेः परमं पदं विश्रान्तिभूमिः ॥ ५ ॥ हरिहरसाधारणस्वरूपं ध्येयमुक्त्वा हरस्वरूपमाह व्यम्बकं त्रिगुणं स्थानं त्रिधातु रूपवर्जितम् ।। निश्चलं निर्विकल्पं च निराधारं निराश्रयम् ॥ ६॥ १ ङ. च. प्रसिद्धं ब्र' । २ ख. ग, घ. त्रिधातुं । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy