________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ॐ तत्सद्ब्रह्मणे नमः।
तेजबिन्दूपनिषत् ।
नारायणविरचितदीपिकासमेता।
तेजबिन्दुः परं ध्यानं विश्वातीतं हृदि स्थितम् ।
द्विखण्डमेकविंशं च तेजोभावफलं हि तत् ॥ १ ॥ प्रणवस्याकारोकारमकारबिन्दुनादानां ध्यानबिन्दौ ध्यानमुक्तम् । शक्तिशान्तयो. यानं वक्तुं तेजबिन्दूपनिषदारभ्यते
ॐ तेजबिन्दुः परं ध्यानं विश्वातीतं हृदि स्थितम् ।
आणवं शांभवं शाक्तं स्थूलं सूक्ष्मं परं च यत् ॥ १॥ तेजबिन्दुरिति । तेजनं तेजः । घञ् । तिजेः क्षमायां सन् । अत्र निशाने घञ् । तस्य बिन्दुः कलैवंविधं परं ध्यानं भवति । विश्वातीतं तदगोचरत्वात् । आणवमणुः सूक्ष्मोपायः क्रियावती दीक्षा तज्जन्यमाणवम् । शांभवं गुरुप्रसादमात्रेण शंभुतापादकम् । शाक्तं गुरुशक्त्यैवोपायनिरपेक्षया जातम् । तदुक्तं महारत्ने
"त्रिविधा सा भवेदीक्षा प्रथमा त्वाणवी परा। शाक्तेयी शांभवी चान्या सद्योमुक्तिविधायिनी ।। मन्त्रार्चनासनस्थानध्यानोपायादिभिः कृता । दीक्षा सा त्वाणवी प्रोक्ता यथाशास्त्रोक्तरूपिणी ।। सिद्धैः स्वशक्तिमालोक्य तया केवलया शिशोः । निरुपायं कृता दीक्षा शाक्यी परिकीर्तिता ॥ अभिसंधिं विना चायं शिष्ययोः परयोरपि । देशिकानुग्रहेणैव शिवताव्यक्तिकारिणी ।।
सेयं तु शांभवी दीक्षा शिवादेशनकारिणी" इति ॥ तत्कृतम् । स्थूलं तद्विषयत्वात् । एवं सूक्ष्मम् । परं सर्वातीतफलम् ॥ १ ॥
१ . तेजोबि । २ ग. तेजोबि।
For Private And Personal