________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२६४ नारायणविरचितदीपिकासमेता
ननु च्छाया यथा वृक्षातिरिक्ता भवत्येवं जगद्ब्रह्मातिरिक्तं चेरैतापत्तिरित्याशङ्कयाऽऽह
सकले निष्कले भावे सर्वत्राऽऽत्माऽध्यवस्थितः ॥८॥ सकल इति । यथार्थे चायथार्थे च ॥ ८ ॥ इदानी गुरुरूपेणाज्ञानान्धतिमिरापहं साकारस्वरूपं ध्येयमित्याह
अतसीपुष्पसंकाशं नाभिस्थाने प्रतिष्ठितम् ।।
चतुर्भुजं महावीरं पूरकेण विचिन्तयेत् ॥ ९॥ अतसीति । पूरकेणोपलक्षितं पूरणकाल इति यावत् । षोडशभिः प्रणवैः पूरयन्नुकारमूर्ति विष्णुं नाभौ स्मरेदिति ज्ञेयम् ॥ ९॥
कुम्भकेन हृदि स्थाने चिन्तयेत्कमलासनम् ।।
ब्रह्माणं रक्तगौराज चतुर्वक्त्रं पितामहम् ॥ १० ॥ पितामहं रक्तगौराझं कपिलवर्ण हृदिस्थाने कुम्भकेन विचिन्तयेदित्यन्वयः । अत्रापि चतुःषष्टिभिः कुम्भयन्नुकारात्मकं चिन्तयेदिति ज्ञेयम् ॥ १० ॥
रेचकेन तु विद्यात्मा ललाटस्थं त्रिलोचनम् ॥ शुद्धस्फटिकसंकाशं निष्कलं पापनाशनम् ॥ ११॥
इति प्रथमः खण्डः ॥१॥ रेचकेनोपलक्षितस्त्रिलोचनं चिन्तयेन्मकारमूर्ति ध्यायन्द्वात्रिंशद्भी रेचयेदिति ज्ञेयम् । तदुक्तं याज्ञवल्क्येन
"वर्णत्रयात्मका ह्येते रेचपूरककुम्भकाः ।
स एष प्रणवः प्रोक्तः प्राणायामश्च तन्मयः" इति ॥ तत्र तु पूरकुम्भरेचकेष्वकारोकारमकारा ब्रह्मविष्णुरुद्रात्मका ध्येयत्वेनोक्ताः । अत्र तु विष्णुब्रह्मरुद्रा इति । ब्रह्मणो हृदि ध्यानमत्र । अन्यत्र तु स्वाधिष्ठान उक्तम् । न वचनस्य पर्यनुयोगोऽस्ति । विद्यात्मा विद्यात्मानम् । व्यत्ययेन प्रथमा । अथवा कर्तृ. विशेषणं विद्यावान्साधक इत्यर्थः ॥ ११ ॥ इति प्रथमः खण्डः ॥ १ ॥
नाभौ हृदि ललाटे च विष्णुब्रह्मरुद्राणां ध्यानमुक्तं तत्र स्थानत्रयपद्मानां सुषुम्नारूपैकनालत्वादेकत्वमेवाभिप्रेत्यावान्तरभेदं दर्शयति--
अष्टपत्रमधःपुष्पमूलनालमधोमुखम् । कदलीपुष्पसंकाशं सर्वदेवमयाम्बुजम् ॥ १२ ॥
१ ग. यात्मकम् ।
For Private And Personal