SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir जाबालोपनिषत् । २४७ समुद्धत्य प्राश्नीयात्साज्यं हविरनामयं मोक्षमवस्त्रय्येवं विन्देत्तद्रौतदुपासितव्यमेवमेवैतद्भगवनिति वै याज्ञव. ल्क्यः ॥ इति चतुर्थः खण्डः ॥४॥ अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्य पृच्छामि त्वा याज्ञवल्यायज्ञोपवीती कथं ब्राह्मण इति स होवाच याज्ञवल्क्य इदमेवास्य तद्यज्ञोपवीतं य आत्मा नादी प्रानीयादुञ्जीत साज्यमाज्यसहितं हविश्वरुम् । संन्यासस्य फलमाह-अनामयं मोक्षमत्र इति । संन्यासो निष्प्रत्यूहं मोक्षोपाय इत्यर्थः । तत्र प्रमाणमाह-त्रय्येवं वदेदिति । वेदत्रय्येवं संन्यासोऽनामयं मोक्षमन्त्र इत्येवं वदेवदतीत्यर्थः । वेदेति वचित्पाठः । एतद्ब्रह्मेति । एतत्संन्यासलक्षणवस्तु ब्रह्म ज्ञातव्यं ब्रह्मप्राप्तिहेतुत्वात् । एवं संन्यासानन्तरं ब्रह्मेति संन्यासिनां व्यवहरन्ति-एतदुपासितव्यमिति । मोक्षाथिंभिरेतत्संन्यासरूपमुपास्यमङ्गीकार्यम् । त्यागेनैके अमृतत्वमानशुरिति श्रुतेः । एतमेवैतदित्यादि पूर्ववत् ॥ इति चतुर्थः खण्डः ॥ ४ ॥ उपवीतत्यागे ब्राह्मण्यसंदेहप्रश्नपूर्वकं निराकरोति । अथ हैनमत्रिरिति । अयज्ञोपवीती त्यक्तयज्ञोपवीतः । इदमेवेत्युक्तं तत्किमित्यत आह-य आत्मेति । आत्मध्याने सर्व धर्मफलमन्तर्भूतमित्यर्थः । तदुक्तं याज्ञवल्क्येन । "ध्यानमेव शंदी०समुद्धत्य प्राश्नीयात् । साज्यं हविरनामयं हुतशेषत्वाद्रोगदोषशून्यम्। इदानी जप्यमाह-मोक्षमत्रो मोक्षहेतुर्मन्त्रो मोक्षमन्त्रः । त्रयी प्रणवस्त्रयीरूपत्वात्तस्य । एवं विन्देद्वक्ष्यमाणप्रकारेण विद्यात् । तद्ब्रह्म सत्यज्ञानादिलक्षणं ब्रह्म एतदोंकाररूपमुपासितव्यम् । जनक आह-एवमेवैतत्त्वयोक्तं संन्यसनम् । एष इति पाठे संन्यासः । भगवन्पूजावन् । श्रुतिराह-इति वै याज्ञवल्क्यः । आहेति शेषः ॥ इति चतुर्थः खण्डः ॥ ४ ॥ अथ हैनमत्रिः पप्रच्छ पूर्वोक्तः प्राप्तावसरं जनकेन प्रष्टव्यं तदनुज्ञया पप्रच्छ याज्ञवल्क्यं हे याज्ञवल्क्य त्वां पृच्छामि । अयज्ञोपवीती स्नानाचमनक्रियाङ्गभूतं यज्ञोपवीतमस्यास्तीति यज्ञोपवीती लोके प्रसिद्धो ब्राह्मणोऽयं न यज्ञोपवीत्ययज्ञोपवीती कथं केन प्रकारेण ब्राह्मणः । इतिः प्रश्नसमाप्तौ । स होवाच याज्ञवल्क्यः । इदमेव स्वयंप्रकाशस्वरूपमेवास्य परमहंसस्य तत्सूत्रादिमयं यज्ञोपवीतम् । क्रियाशब्दप्रत्यययोग्यं प्रसिद्धम् । यज्ञस्य श्रौतस्य च स्मार्तस्य च विविधस्य तपोयोगखाध्यायज्ञानादेरुप सामीप्येन विशेषेण नित्यसंयोगेनेतं प्राप्तं यज्ञोपवीतम् । यः वयंप्रकाशसच्चिदानन्दत्वेन प्रसिद्धः । आत्माऽस्मबुद्धेः साक्षी । १ क. ख. ग. घ. ववदेदेतद्र। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy