SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir जाबालोपनिषत् । यदि वेतरया ब्रह्मचर्यादेव प्रव्रजेनुहाद्वा वनाद्वाऽथ पुनरवती वा व्रती वा ना०दी. अत एव स्मृतिः "ऋणत्रयमपाकृत्य मनो मोक्षे निवेशयेत्" इति । तथा-"अधीतवेदो जपकृत्पुत्रवानन्नदोऽग्निमान् ॥ शक्त्या तु यज्ञकृन्मोक्षे मनः कुर्यात्तु नान्यथा" इति । "न्यायागतधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः ॥ श्राद्धकृत्सत्यवादी च गृहस्थोऽपि विमुच्यते” :इति स्मृतेराश्रमान्तरस्यापि ज्ञानसाधनत्वाज्ज्ञानिनोऽपि याज्ञवल्क्यादेः क्रमसं. न्यासो न विरुद्ध इति भावः । ननु तृतीयखण्डे ब्रह्मचारिभिरात्मज्ञानोपायः पृष्टो ब्रह्मचारिणां च विवाहादिकर्मव्यग्राणां कथमात्मज्ञानावसर इत्याशङ्कय वैराग्यपाटवे क्रमातिक्रमेणापि संन्याससंभवान्ज्ञानप्रश्नोपपत्तिरित्याशयेनाऽऽह-यदि वेति । यदि वेत्यनियमे इतरथा गार्हस्थ्याद्यनङ्गीकृत्य व्युत्क्रमप्रकारेणापि परमविरक्तस्य कर्मणि प्रवृत्त्यनुपपत्तेरर्थात्संन्याससिद्धिरिति भावः । गृहावनाद्वेति । वाशब्दः प्रत्येकमभिसंबध्यते । वनात्तृतीयाश्रमात् । एतजन्मावच्छिन्नमेव व्रतादि न संन्यासाङ्गमित्याहअथ पुनरिति । अव्रत्यचीर्णाध्ययनाङ्गवतः । स्नातकः कृतविद्याव्रतान्तस्नानः । उत्स शंन्दी०तु चतुर्वपि न कदाचिदपि । इदानीं सति वैराग्ये संन्यासे विशेषमाह-यदि वा पक्षान्तरे विकल्प इतरथा वैराग्यसंपन्नः सेसारस्पृहातः प्रकारान्तरात् । अधीतस्वशाखावेदान्तः सर्ववेदान्ताध्यायी वा ब्रह्मचर्यादेव प्रथमाश्रमादेव स्वल्पकालं चीर्णाज्ज्ञानकाले वाऽसति यावज्जीवं तदाश्रमसंकल्प उत्तराश्रमं वाऽस्वीकृत्यापि प्रत्रोत्पारमहंस्याश्रमं गच्छेत् । यद्यपि प्रवनेदिति श्रुतिः साधारणी कुटीचकादीनामपि तथाऽपीतरथाशब्देन वैराग्यसंपत्तेरभिधानाद्वैराग्यस्य साकल्ये सति संकोचस्यायुक्तत्वात्पारमहंस्यमेव युक्तग्रहम्। ब्रह्मचर्यादिति ब्रह्मचर्यावधिश्रवणादनुपनीतस्यानधिकारः सूचितः । यद्यपि जन्मान्तराधीतवेदत्वेन चेह तदर्थस्मरणादुपनयने नोपयोगस्तथाऽपि न तत्र वैधेन पारमहंस्येनाप्युपयोगः स्वतःसिद्धत्वात्तस्य गृहाद्वा कृतत्रिवर्गादकृतत्रिवर्गाद्वाऽकृतगृहस्थाश्रमयावज्जीवसंकल्पः । वनाद्वाऽचीर्णसमग्रवनस्थधर्माद्वा यावज्जीवं तदाश्रमसंकल्पाभावे । वाशब्दो द्वयोरेकस्य चोत्तराश्रमस्याग्रहणेऽपि वैराग्ये सति त्रिष्वप्याश्रमेषु प्रव्रज्याधिकारसमुच्चयार्थः । ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा प्रव्रजेद्वनादेव वा प्रवदित्यन्वयः । अथ प्रकृतेभ्यो ब्रह्मचारिगृहस्थवानप्रस्थाश्रमिभ्योऽर्थान्तरभूतः पुनः पश्चादुत्पन्नवैराग्यः । अबती वा व्रती वा । बतमस्यास्तीति व्रती न व्रत्यव्रत्यव्रतवान् । अस्य वनस्थस्य जपविमोक्षानन्तरं वनस्थाश्रमसमाप्त्यभिषेके प्राप्ते कुतश्चिन्निमित्तात्संन्यासाश्रमप्रवेशे यावदवस्थानं तद्देधा, For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy