SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २४२ नारायणशंकरानन्दविरचितदीपिकाभ्यां समेता तैई वा अमृतो भवतीत्येवमेवैतद्याज्ञवल्क्यः ॥इति तृतीयः खण्डः३ __ अथ ह जनको ह वैदेहो याज्ञवल्क्यमुपसमेत्योवाच भगवन्सन्यांसमनुब्रहीति स होवाच याज्ञवल्क्यो ब्रह्मचर्य समाप्य गृही भवे ही भूत्वा वनी भवेद्वनी भूत्वा प्रबजेनादी० मेवैतद्याज्ञवल्क्येति ब्रह्मचारिणामङ्गीकारवाक्यम् । याज्ञवल्क्य इति पाठे याज्ञवल्क्य इति यदाहैवमेवैतदिति श्रुतेर्वचः ॥ इति तृतीयः खण्डः ॥ ३ ॥ ननु संन्यासिनामेवाविमुक्तोपासनद्वारा यदि मुक्तिस्ताश्रमान्तरपरिग्रहं न कोऽपि कुर्यादित्याशङ्कय जनकः पृच्छति--अथ हेति । पितृव्यावृत्त्यर्थं वैदेह इति विशेषणम् । उपसमेत्य समीपमागत्येति विनयप्रदर्शनार्थम् । असत्यपि संन्यासे भवतः सिद्धिप्रदर्शनार्थं भगवन्निति संबोधनम् । संन्यासं संन्यासाधिकारं तद्विधिं च । इतरो विदिताभिप्रायः क्रमेणोत्तरयन्नादौ क्रमसंन्यासमाह-स होवाचेति । ब्रह्मचर्य समाप्येति । अन्यथाऽनधीतवेदस्य कर्मण्यनधिकारात् । गृही भूत्वेति । अन्यथा संतत्यभावे पित्र्यर्णानपाकरणात् । वनी भूत्वेति । तपसा हन्ति किल्विषमिति सकिल्विषस्यानधिकारात् । शं०दी०रुद्रस्य नामानि । एतै रुद्रनामधेयैर्नित्यं जपितैः । ह वै प्रसिद्धैरेव । अमृतो भवति मोक्षभाग्भवति । इतिः खण्डसमाप्तौ ॥ इति तृतीयः खण्डः ॥ ३ ॥ . अथ ब्रह्मचारिप्रश्नानन्तरं ह प्रसिद्धो जनको नामतः । ह प्रसिद्धः । वैदेहो विदेहदेशाधिपतिः । याज्ञवल्यमुपसमेत्योप समीपे समागत्योवाच । भगवन्षड्गुणैश्वयसंपन्न । संन्यासमनुब्रूहीति । अवसरमनु केन कथं कदा करणीय इत्यर्थः । स होवाच याज्ञवल्क्यः । इदानीमविरक्तस्य कालप्राप्तं संन्यासं वक्तुमाश्रमव्यवस्थामाह-ब्रह्मचर्य विरक्तिशून्यः समाप्य स्नातकः प्रथमाश्रमविरक्तो भवेदिति शेषः । तत्र चेत्प्रीतिः संकल्पपुरःसरं तत्रैवावतिष्ठेत तत्र प्रीतेरभावेऽष्टवर्षानन्तरं द्विजातीनां संस्काररूपं वेदग्रहणाङ्गमेकं द्वौ त्रीश्चतुरो वेदानेकां खशाखां षडङ्गयुक्तां वा यथाशास्त्र गुरुशुश्रूषापुरःसरमधीत्य समावर्तनकर्मणा समाप्य प्राप्तयौवनकालो गृही दारपरिग्रहलक्षणं श्रौतस्मार्तयोरन्यतरेण निषेवितसर्वकर्मसंपादकं त्रिवर्गकारणं कंचिस्कालं गार्हस्थ्यं गृहमस्यास्तीति गृही भवेत् । गृह इच्छाभावे गृहाद्वनी कन्दमूलफलाद्याहारेण साग्निहोत्रो निरग्निहोत्रो वा वनं निवासस्थानमस्यास्तीति वनी भवेदित्यनुषङ्गः । भूत्वा वनस्थाश्रमं स्वीकृत्यात्रापीच्छाया अभावे प्रव्रजेचतुर्थाश्रम गच्छेत् । अत्र चतुर्वाश्रमेष्वनुक्रमोऽयमाश्रमान्तरं गन्तुमिच्छाया अभाव एकैकं यावज्जीवं संकल्पपुरःसरं गन्तुमिच्छेत् । संन्यासमन्तरेणानुक्रमोऽपि नियतः । प्रातिलोम्यं १ ग. ङ. तीति । अ । २ ख. घ. न्यासं त्रू । ३ ग, ङ. °द्गृहादूनी भूला प्र। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy