SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २३६ नारायणशंकरानन्दविरचितदीपिकाभ्यां समेता कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनमविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनं तस्माद्यत्र कचन गच्छति तदेव मन्येतेतीदं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनमत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रनादी प्रसिद्धं सर्वस्मादपि देशात्पुण्यकर्मकलशभूतमित्यर्थः । कुरुक्षेत्रं कुत्सितं रौतीति कुरु पापं कर्म तस्य क्षपणाद्गमनकारणत्वात्क्षेत्रम् । अथवा कुः पृथिवी तस्यां रौति शब्दं करोति यः प्राणस्तस्य निवासभूतं कुरुक्षेत्रम् । देवानामिन्द्रियाणां देवयजनं देवस्य स्वयंप्रकाशस्याऽऽत्मनः पूजाधिकरणम् । अत्र हीन्द्रियाणि विविधविषयोपहारैः परमात्मानं पूजयन्ति । सर्वेषां भूतानां सर्वेषामिन्द्रियाधिष्ठातूणां प्रसिद्धानां वा भूतानां ब्रह्मसदनं ब्रह्मणः सर्वस्मादधिकस्य देशकालवस्तुपरिच्छेदशून्यस्य सदनं निवासस्थलम् । रूपकमत्र द्रष्टव्यम् । यथा प्रसिद्धं कुरुक्षेत्रं देवयजनं देवानां हविर्भागप्राप्तिशब्दी पुण्यकर्मफलभूतमित्यर्थः । कुरुक्षेत्रं कुत्सितं रौतीति कुरु पापं कर्म तस्य क्षेपणाद्गमनकारणत्वात्क्षेत्रम् । अथवा कुः पृथिवी तस्यां रौति शब्दं करोति यः प्राणस्तस्य निवासभूतं कुरुक्षेत्रम् । देवानामिन्द्रियाणाम् । देवयजनं देवस्य स्वयंप्रकाशस्याऽऽत्मनो यजनं पूजाधिकरणम् । अत्र हीन्द्रियाणि विविधविषयोपहारैः परमात्मानं पूजयन्ति । सर्वेषां भूतानामिन्द्रियाधिष्ठातॄणां प्रसिद्धानां भूतानां वा ब्रह्मसदनं ब्रह्मणो देशकालवस्तुपरिच्छेदशून्यस्य निवासमूलम् । रूपकमत्र द्रष्टव्यम् । यथा प्रसिद्धं कुरुक्षेत्रं देवानां हविर्भागप्राप्तिकारणं ब्रह्मणो यज्ञस्य सदनं सर्वेषां भूतानां दृष्टादृष्टप्राप्तिकारणं तथा तद्विशेषणविशिष्टमुक्तं कुरुक्षेत्रम् । किमिति शेषः। तदुत्तरमाह-अविमुक्तं वै । विशेषेणाविद्याकामक्रोधादिभिर्मुक्तः परित्यक्तश्चिदानन्दरस आत्मा स एवाविद्यादशायामविमुक्तस्तत्स्वरूपमविमुक्तं प्रसिद्धम् । विविधधर्मानात्मनि मन्यमानं सोपाधिकमैश्वरं रूपमिति यावत् । तदेव कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । व्याख्यातम् । यस्मादेवं तस्माद्यत्र कचन यत्र क्वापि गङ्गाप्रयागादौ विपरीते वा स्थले । गच्छति गमनं करोति । तदेवाविमुक्तं मन्येत जानीयात् । इत्यनेन प्रकारणेदं वै मया प्राप्तं स्थूलमेव तदेवेत्यन्वयः । उक्तविशेषणमेव न तु केवलमित्येतदर्थं पुनराह-कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् । व्याख्यातम् । अत्राविमुक्ते कुरुक्षेत्रादिरूपे यस्मिन्कस्मिंश्चिद्देशेऽविज्ञाते । हि यस्माजन्तोः प्राणिमात्रस्य । प्राणेषूत्क्रममाणेष्विति वा पाठः। रुद्रो रुद्दुःखं द्रावयति नाशयतीति वा रुद्रः १ क. गच्छेत्तदें । ङ. गच्छेत्तत्तदभिम । २ घ. मन्यते तदविमुक्तमेवेदं । ३ इ. 'न्येतावि. मुक्तो वै देवा। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy