________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ॐ तत्समणे नमः।
जाबालोपनिषत् ।
नारायणशंकरानन्दविरचितदीपिकाभ्यां समेता ।
ॐ भद्रं कर्णेभिरिति शान्तिः । बृहस्पतिरुवाच याज्ञवल्क्यं यदनु
____नारायणविरचितदीपिकारम्भः । कृष्णद्वैपायनं व्यासं शंकरं लोकशंकरम् । आनन्दात्मानमध्यात्मगुरुं देवं नतोऽस्म्यहम् ॥ १ ॥ जाबालोपनिषद्व्याख्यां ख्यापयन्ती सुधानिधिम् ।
करिष्ये प्रीयतां देवो विमुक्तोऽयं तयेश्वरः ॥ २ ॥ सर्वासामुपनिषदां संगतिर्या कर्मकाण्डेन साऽस्या अपि तत्संगतिश्चास्माभिर्वृहदारण्यकदीपिकारम्भे प्रदर्शिताऽत्र सर्वतोर्थसार आत्माऽशेषसंसारधभैरसंस्पृष्टोऽहंप्रतिपाद्य एसादृशज्ञानेन च निःशेषानर्थनिवृत्तिरानन्दावाप्तिश्च प्रयोजनमप्युपनिषदन्तरवत् । भत एव संबन्धाधिकारिणावपि न. पृथग्वर्णनीयौ । ब्रह्मज्ञानोपायसंन्यासानधिकारिणां शतरुद्रियजपः संन्यासिनामपि श्रवणाद्यधिकारिणां सर्वसङ्गपरित्यागश्चाऽऽक्षेपसमाधानाभ्यां प्रतिपाद्यत इत्युपनिषदर्थसंक्षेपः । तत्राऽऽख्यायिकाऽऽचारविधिज्ञापनार्था । मिथिलोपवने कदाचिद्योगीश्वरो याज्ञवल्क्य आसांचक्रे शिष्यसंधैर्जनकेन राज्ञा मुनिभिश्च निवीतः । तं बृहस्पतिः शक्रगुरुरुवाच । याज्ञवल्क्यम् । स्पष्टम् । यदनु
शंकरानन्दविरचितदीपिकारम्भः । माबालोपनिषद्व्याख्यां ख्यापयन्ती सुधानिधिम् ॥
करिष्ये प्रीयतां देवो विमुक्तो यस्तयेश्वरः ॥ १ ॥ सर्वासामुपनिषदां संगतिया कर्मकाण्डेन साऽस्या अपि । तत्संगतिश्चास्माभिवृहदारण्यकदीपिकारम्भे प्रदर्शिता । अत्र सर्वतीर्थसार आत्माऽशेषसंसारधभैरसंस्पृष्टोऽहंप्रतिपाद्य एतादृशज्ञानेन च निःशेषानर्थनिवृत्तिरानन्दावाप्तिश्च परमप्रयोजनमप्युपनिषदन्तरवत् । अत एव संबन्धाधिकारिणावपि न पृथग्वर्णनीयौ ब्रह्मज्ञानोपायसंन्यासानधिकारिणां शतरुद्रियजपः संन्यासिनामपि श्रवणाद्यधिकारिणां सर्वसङ्गपरित्यागश्चाऽऽक्षेपसमाधानाभ्यां प्रतिपाद्यत इत्युपनिषदर्थसंक्षेपः । तत्राऽऽख्यायिकाऽऽचारविधिज्ञापनार्था । मिथिलोपवने कदाचिद्योगीश्वर आसांचक्रे शिष्यसंधैर्जनकेन राज्ञा मुनिभिश्च निवीतस्तं बृहस्पतिः शक्रगुरुरुवाच याज्ञवल्क्यम् । स्पष्टम् । यदनु प्रसिद्धं यस्मात्सर्वस्मादपि
For Private And Personal