________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२३४
चूलिकोपनिषत् |
एवं सहस्रशः पुनः पुनः पर्यस्यन्तं देवं जन्ममरणादिप्रबन्धमापद्यमानं जीवम् । ईश्वराराधनेनोद्धरेदिति शेषः । वैराग्यार्थमिदमभिहितम् । तस्यान्नं पानं चाक्षय्यं भवति । पितॄणां चाक्षयमेवोपतिष्ठते ॥ १९ ॥ २० ॥
ब्रह्म ब्रह्मविधानं तु ये विदुर्ब्राह्मणादयः । ते लयं यान्ति तत्रैव लीनास्या ब्रह्मशायिने लीनास्या ब्रह्मशायिन इति ।। २१ ।।
इत्यथर्ववेदे चूलिकोपनिषत्समाप्ता ॥ १३ ॥
ब्रह्म कूटस्थम् । ब्रह्मविधानं तज्ज्ञानोपायम् । लीनास्या लीनमास्यं मुखं प्रवृत्तिद्वारं रागादि येषां ते तथोक्ताः । किमर्थं लीनास्याः । ब्रह्मशायिने ब्रह्मणि शेते तच्छीलो ब्रह्मशायी भावप्रधानो निर्देशः । ब्रह्मशायित्वाय ब्रह्मणि शयनं कर्तुमे की भवितुमित्यर्थः । द्विरुक्तिः समाप्त्यर्था ॥ २१ ॥
इति पञ्चमः खण्डः || ५॥
नारायणेन रचिता श्रुतिमात्रोपजीविना । अस्पष्टपदवाक्यानां दीपिका चूलिकाभिधे ॥ १ ॥
इति नारायणविरचिता चूलिकोपनिषद्दीपिका समाप्ता ॥ १८ ॥
For Private And Personal