________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चूलिकोपनिषत् ।
" मात्रा भूतानीन्द्रियाणि मनो बुद्धिरहंकृतिः । महान्प्रधानं तत्त्वानि षड्विंशः परमेश्वरः" इति ।
चित्तेन साहित्ये सप्तविंश इति । संख्यायते ऽनयेति संख्या तत्संबन्धी सांख्यस्तं ज्ञानगम्यमित्यर्थः ।
तदुक्तम् - " मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः" इति ॥ स्वयमव्यक्तमप्रत्यक्षं व्यक्तदर्शनं व्यक्तस्य जगतो भासकम् ॥ १३ ॥ १४ ॥ अद्वैतं द्वैतमित्येतत्रिधा तं पञ्चधा तथा ।। १५ ।। अद्वैतं वेदान्तिनो द्वैतं काणादास्त्रिधा गुणभेदेन पञ्चधा भूतभेदेन "" स एकधा भवति त्रिधा भवति पञ्चधा सप्तधा नवधा पुनश्चैकादशः स्मृतः” इति श्रुत्यन्तरात् ॥११॥ इति तृतीयः खण्डः ॥
ब्रह्माद्यं स्थावरान्तं च पश्यन्तो ज्ञानचक्षुषः । तमेकमेव पश्यन्ति परिशुद्धं विभुं द्विजाः ।। १६ ।। द्विजात्रैवर्णिका वेदविदः ॥ १६ ॥
यस्मिन्सर्वमिदं प्रोतं ब्रह्म स्थावरजङ्गमम् । तस्मिन्नेव लयं यान्ति बुद्बुदाः सागरे यथा ।। १७ ॥ यस्मिन्भावाः प्रलीयन्ते लीनास्या व्यक्ततां ययुः । नश्यन्ते व्यक्ततां भूयो जायन्ते बुद्बुदा इव । क्षेत्रज्ञाधिष्ठितं चैव कारणैर्व्यञ्जयेद्बुधः ।। १८ ।।
२३३
ब्रह्मेति । ब्रह्मकार्यं स्थावरादि यस्मिन्प्रोतं तमेकं ब्रह्मैव पश्यन्तीत्यन्वयः । लयं यान्ति सर्वे भावाः । लीनास्या लीनमास्यं मुखं द्वारमविद्यालक्षणं येषां ते तथोक्ताः सन्तो व्यक्ततां ययुर्गताः । पुनर्नश्यन्ते नश्यन्ति । भूयश्च व्यक्ततां जायन्ते जनयन्ति । अन्तर्भावितण्यर्थत्वात्सकर्मकः । गच्छन्ति वा । द्विःकथनं सृष्टिप्रलययोरभ्यासज्ञापनार्थम् । क्षेत्रज्ञेनाधिष्ठितं शरीरम् । कारणैरनुमितकारणैर्हेतुभिर्विमतं चेतनाधिष्ठितं क्रियावत्त्वाद्रथवदित्यादिभिः । व्यञ्जयेल्लक्षयेत् । बुधः पण्डितः ॥ १७ ॥ १८ ॥ इति चतुर्थः खण्डः ।। ४ ।
एवं सहस्रशो देवं पर्यस्यन्तं पुनः पुनः ॥ १९ ॥ य एवं श्रावयेच्छ्राद्धे ब्राह्मणो नियतव्रतः । अक्षय्यमन्नपानं च पितॄणां चोपतिष्ठते ॥ २० ॥
For Private And Personal