SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २१२ नारायणविरचितदीपिकासमेतारथंतर इति । रथंतरे गीयते बृहत्साम्नि गीयते । सामगेर्दोग्ध्रीपतिरिति शेषः। किं बहुना सप्तैवैते च सामभेदा गायन्तीति विपरिणामः । रथंतरं वृहत्साम वैरूपं वैराजं महानाम्नी रेवती वामदेव्यमिति सप्त सामानि । दोग्ध्रीपतिः फलं पूर्वोक्तं ददातीति ज्ञेयम् ॥ ९॥ अथर्वणां व्यापारमाह मत्रोपनिषदं ब्रह्म पदक्रमसमन्वितम् । पठन्ति भार्गवा ह्येतदथर्वाणो भृगूत्तमाः ॥ १० ॥ मवेति । मन्त्राश्चोपनिषदं च मन्त्रोपनिषदम् । उपनिषदशब्दोऽकारान्तो नपुंसकमस्ति । ब्रह्म ब्राह्मणं पठन्ति मायापतिं भजन्तीति भावः ॥ १० ॥ इति द्वितीयः खण्डः ॥२॥ भार्गवग्रन्थानां विषयमीश्वरमाह ब्रह्मचारी च बात्यश्च स्कम्भोऽथ पलितस्तथा। अनड्वाल्लोहितोच्छिष्टः पठ्यते भृगुविस्तरे ॥ ११ ॥ कालः प्राणश्च भगवान्मन्युः पुरुष एव च। शर्वो भवश्व रुद्रश्च श्यावाश्वः सासुरस्तथा ॥ १२ ॥ ब्रह्मचारीत्यादिसार्धद्वाभ्याम् । ब्रह्मचारित्ववात्यत्वाभ्यां सर्वविरुद्धधर्मा अस्मिन्न विरुद्धा इत्युक्तम् । स्कम्भः स्तम्भकः । स्कम्भिः स्तम्भे । वृद्धः कुमारश्चेति विरुद्धम् । अनडुत्त्वं वाह्यवाहकयोरेकत्वात् । लोहितोच्छिष्ट आर्द्रगजचर्मपरिधानत्वात् । कालः संहर्तृत्वात् । प्राणो वायुमूर्तत्वात् । मन्युस्तमउपाधिना । शवः । शू हिंसायाम् । भवति प्रभवति भवः । रोदनाद्रुद्रः । श्यावा विकृता अश्वा इन्द्रियाणि नेत्रादीनि यस्य । त्रिनेत्रदशभुजादिरूपत्वात् । असुरैर्बाणादिभिः सहितः सासुरः ॥ ११ ॥ १२ ॥ प्रजापतिर्विरादचैव पाणिः सलिल एव च । स्तूयते मत्रसंयुक्तैरथर्वविहितैर्विभुः ॥ तं षड्विंशकमित्येके सप्तविंशं तथाऽपरे ॥ १३ ॥ पुरुषं निर्गुणं सांख्यमथर्वाणं शिरो विदुः । चतुर्विंशतिसंख्याकमव्यक्तं व्यक्तदर्शनम् ।। १४ ॥ पाणिः पादपृष्ठं तत्तुल्यः संहारे लोकमर्दनात् । सलिलः सलिलवर्णाङ्गदत्वात् । एवं विंशतिविशेषणो विभुमत्रब्राह्मणाभ्यां स्तूयते । अथर्वविहितैाह्मणैः । विभुरीश्वरः परमात्मा । षड्विंशकं पौराणिकाः । सप्तविंशं तद्भेदा एवम् । १ ख. ग. पठन्ते। २ स. ग. वान्मृत्युः पु। ३ ख. ग. "लमेव । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy