SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २२४ नारायणविरचितदीपिकासमेताएतत्सर्व भविष्यति मया प्रोक्तं विधे तव । स्वरूपं द्विविधं चैव सगुणं निर्गुणं तथा ॥ १७ ॥ कूटस्थस्येति । सर्वोपरिस्थितत्वसाम्येन । युगुलं युग्मरूपं कुण्डलं यत्स्मृतं तत्प्रस्फुरति दीप्यमानमक्षरोत्तममोंकारं यो ध्यायेत्स मम कथितं सगुणं च निर्गुणं च सकाम्यो मेरोः शृङ्ग इत्यादिना सगुणं पूर्व ह्येकमेवाद्वितीयं ब्रह्माऽऽसीदित्यादिना निर्गुणम् । उपासने न वस्तुतत्त्वमपेक्षितमिति न्यायेनातद्ब्रह्मादिबुद्धिवदतस्मिंस्तत्त्वदृष्टिः क्रियत इत्याशङ्कानिवृत्त्यर्थं स्वरूपपदोपादानम् । तेन श्रीवत्सादिकं वस्तुतश्चित्स्वरूपादिकमेव न त्वारोप इति भावः ॥ १७ ॥ इदानीमुक्तानां द्वादशमूर्तीनां यजनप्रकारमधिकारमधिकरणं च पृच्छति स होवाचाब्जयोनिर्व्यक्तानां मूर्तीनां मोक्तानां कथं वाऽवधारणा भवन्ति कथं वा देवा यजन्ति रुद्रा यजन्ति ब्रह्मा यजति विनायका यजन्ति द्वादशाऽऽदित्या यजन्ति वसवो यजन्त्यप्तरसो यजन्ति गन्धर्वा यजन्ति स्वपदं गताऽन्तर्धाने तिष्ठति का मनुष्या यजन्ति स होवाच तं तु ह वै नारायणो देवः, स हेति । व्यक्तानां प्रत्यक्षाणां विविक्तानां कथं वा केन प्रकारेण । अवधारणा निश्चयः । कथं वाव धारणेति वा पदच्छेदः । वावशब्दः संबोधने धारणा निश्चयः । अन्तर्हितमूर्तिव्यावृत्त्यर्थं व्यक्तानामिति विशेषणम् । कथं वेति देवसामान्यप्रश्नः । रुद्रा इत्यादिविशेषप्रश्नः । सर्वत्र प्रकारविषयः प्रश्नः । स्वपदं गतेति । अप्रत्यक्षतया च कथं तिष्ठतीति । स्वपदगादन्तर्धान इति पाठे धुलोकगमनादन्तर्हिता कथं तिष्ठतीत्यर्थः। तु पुनः । तं ब्रह्माणम् । ह प्रसिद्धौ । वै निश्चितम् । देव ईश्वर उवाच । अधिकारिणमाह आया अव्यक्ता द्वादश मूर्तयः सर्वेषु लोकेषु सर्वेषु देवेषु सर्वेषु मनुष्येषु तिष्ठति आद्या इति । अव्यक्ता लोकैरज्ञायमानाः । सर्वलोकस्थितानां मूर्तीनामव्यक्तत्वं गीतासूक्तम्-- "मया ततमिदं विश्वं जगदव्यक्तमूर्तिना” इति । अपृष्टा अप्यव्यक्ता उक्ताः ॥ व्यक्ता आहरुद्रेषु रौद्री ब्रह्मण्येव ब्राह्मी देवेषु दैवी मानसेषु मानसी विनायके विघ्ननाशिन्यादित्येषु ज्योतिर्गन्धर्वेषु गान्धय॑प्सरःस्वेवं १ ख. "विष्यं वै म । २ घ. 'पदगादन्त'। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy