SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोपालोत्तरतापनीयोपनिषत् । २२३ चलस्वरूपमिति । चक्रं सुदर्शनं मनो निगद्यत इत्यन्वयः । चलस्वरूपमित्यनेन सादृश्यं दर्शितम् । एतन्मनोमयं चक्रं मया सृष्टं विसृज्यते' इति वाराहे ब्रह्मवाक्यम् । शाङ्गै मायादृष्टिमाह __ आधा माया भवेच्छाई पद्म विश्वं करे स्थितम् । आयेति । करे स्थितं पद्मं विश्वरूपेणोपास्यमित्याह-पद्ममिति । मूलविद्यारूपेण गदोपास्येत्याह आद्या विद्या गदा वेद्या सर्वदा मे करे श्रिता । आधेति । वेद्या ज्ञेया । आद्यविद्या याज्ञवल्क्येनोक्ता “पुराणन्यायमीमांसा धर्मशास्त्राङ्गामिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश” इति । अत एव गदेति नाम गदति वदति सर्वार्थानादौ । अत एव साधूपकाराय मया करेऽभयस्थाने धृतेत्याह-सर्वदेवि । 'बुद्धिरूपां गदां विद्यात्' इति पारमहंसी संहिता। 'गदा तु कालिका साक्षात्' इति कृष्णोपनिषच्छ्रतेराद्याऽविद्या गदेति व्याख्येयम् । 'बुद्धिरूपां गदां विद्यात्' इति तु बुद्धस्तदाश्रितत्वाभिप्रायेण । केयूरचतुष्टये तु पुरुषार्थचतुष्टयदृष्टिः कर्तव्येत्याह धर्मार्थकामकेयूरैर्दिव्यैनित्यमवारितैः । धर्मेति । धर्मादिग्रहणं मोक्षस्याप्युपलक्षणम् । दिव्यैरलौकिकैर्नित्यं सर्वदाऽवारितरप्रतिहतैरुपलक्षिते कर इति संबन्धः । चतुर्षु करेषु चत्वारः केयूरा धर्मादय इत्यर्थः । विद्यावति करे पुरुषार्थवत्त्वमुचितमेव । स कण्ठो ब्रह्मवेत्याह कण्ठं तु निर्गुणं प्रोक्तं माल्यते माययाऽजया। माला निगद्यते ब्रह्मंस्तव पुत्रैस्तु मानसैः ॥ कप्ठे त्विति । कण्ठं कण्ठः । निर्गुणं गुणातीतम् । मल मल्ल धृतौ ण्यन्तः । अनया मायया हेतुकन्या । हे ब्रह्मन् । मानसैः सनकादिभिस्तेन माला निगद्यते । किरीटं कूटस्थस्वरूपदृष्टया ध्यायेदित्याह कूटस्थस्य स्वरूपं च किरीट प्रवदन्ति माम् । अक्षरोत्तमं प्रस्फुरत्तत्कुण्डलं युगुलं स्मृतम् ।। ध्यायेन्मम प्रियो नित्यं स मोक्षमधिगच्छति । स मुक्तो भवति तस्मै च आत्मानं ददामीति ।। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy