________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोपालोत्तरतापनीयोपनिषत् । गौर्वसुष्वेवं काम्याऽन्तर्धाने प्रकाशन आवि
र्भावा तिरोभावा केवला तु स्वपदे तिष्ठति रुद्रेष्विति । ब्रह्मणि ब्राम्ये वेत्यन्वयः । ज्योतिर्योतीरूपा । एवं पूर्वोक्तप्रकारेणाप्सरःसु गौर्नाम्ना । काम्या नाम्ना । अन्तर्धान उद्देश्ये सति तिरोभावा तिष्ठति प्रकाशन उद्देश्ये सति स्वपद आविर्भावा तिष्ठतीत्यन्वयः “आविर्भावतिरोभावौ शक्ती वै मुरवैरिणः" इति पञ्चरात्रे । कदाचिदाविर्भवति भक्तानुग्रहवशादाविर्भावा तथा तिरो भवति तिरोभावा । स्वपदे तिष्ठतीति । एका तु स्वपद एव वैकुण्ठे तिष्ठतीत्यर्थः । त्रिगुणात्मिका मनुष्येष्वित्याह
तामसी सात्त्विकी राजसी मानुषी विज्ञानघन आनन्द
घनः सच्चिदानन्दैकरसे भक्तियोगे तिष्ठति ॥ १८ ॥ तामसीति । गुणत्रयवती मानुषीत्यर्थः । विज्ञानघनस्तथाऽऽनन्दघनो भक्तियोगे तिष्ठति । प्रेमात्मकभक्तियोगस्य सच्चिदानन्दमात्रकविषयस्य विज्ञानघन एव संभवात् । न वा अरे पुत्राणामिति न्याये स्वभिन्ने प्रेमरसस्य गौणत्वाद्भिन्नस्य निरुपाधिकप्रियत्वाभावाद्विज्ञानघनः सैन्धवघनवद्विज्ञानकमूर्तिः ॥ १८ ॥ इदानी सप्तदशभिः पर्यायैर्नारायणो गोपालस्तुतिमुपदिशति*ॐ टां प्राणात्मने टां तत्सद्भूर्भुवः स्वस्तस्मै प्राणात्मने नमो नमः ॥ १ ॥ ॐ टां कृष्णाय गोविन्दाय गोपीजनवल्लभाय टां तत्सद्भूर्भुवः स्वस्तस्मै वै नमो नमः ॥२॥ ॐ टामपानात्मने टां तत्सद्भूर्भुवः स्वस्तस्मा अपानात्मने नमो नमः ॥३॥ ॐ टां कृष्णाय प्रद्युम्नायानिरुद्धाय टां तत्सद्भूर्भुवः स्वस्तस्मै वै नमो नमः ॥ ४ ॥ ॐ टां व्यानात्मने टां तत्सद्भूर्भुवः स्वस्तस्मै व्यानात्मने नमो नमः ॥५॥ ॐ टां कृष्णाय रामाय टां तत्सदूर्भुवः स्वस्तस्मै वै नमो नमः ॥ ६ ॥ ॐ टामुदानात्मने टां तत्सद्भूर्भुवः स्वस्तस्मा उदानात्मने नमो नमः ॥ ७ ॥ ॐ टां कृष्णाय देवकीनन्दनाय टां तत्सद्भूर्भुवः स्वस्तस्मै वै नमो नमः ॥ ८॥ ॐ टां समानात्मने टां तत्सद्भूर्भुवः स्वस्तस्मै समानात्मने नमो नमः ॥९॥ ॐ टां गोपालाय निजस्वरूपाय टां तत्सर्भुवः स्वस्तस्मै वै नमो नमः ॥ १० ॥ ॐ टां योऽसौ प्रेयानात्मा गोपालः टां तत्सद्भूर्भुवः स्वस्तस्मै वै नमो नमः
* ग. ङ. पुस्तकयोः सर्वमन्त्रेषु ‘ओं टाम् ' इत्यस्य स्थाने 'ओम् ' इति टामित्यस्य स्थान भोमिति।
१ ड. काशिन्यावि। २ ग. ह. वा स्वपदं ति” ।
For Private And Personal