SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोपालोत्तरतापनीयोपनिषत् । २१७ मधुरामण्डले यस्तु जम्बुद्वीपस्थितोऽपि वा। योऽर्चयेत्मतिमा प्रीत्या स मे प्रियतरो भुवि ॥ १५ ॥ मधुरेति । मथुरा मधुरेति चेति शब्दभेदो विश्वे । जम्बुद्वीप इति । तत्रापि भारतखण्डे तत्रापि सप्तपुरीषु तत्रापि मधुरायां विशेष इति बोद्धव्यम् । प्रतिमां पाषाणादिनिर्मितां लक्षीकृत्येत्यर्थः । मां योऽर्चयेत्पूजयेत्स मे मम प्रियतरोऽत्यन्तवल्लभो भुवि भूमौ ॥ १५ ॥ तस्यामधिष्ठितः कृष्णरूपी पूज्यस्त्वया सदा। चतुर्धा चास्याधिकारिभेदत्वेन यजन्ति माम् ।। युगानुवर्तिनो लोका यजन्तीह सुमेधसः॥ तस्यामिति । हे ब्रह्मस्तस्यां प्रतिमायामधिष्ठितः कृष्णरूपोपाधिस्त्वया ब्रह्मणा सदाऽहं पूज्यः पूजनीयः । चतुर्धेति । अस्य कृष्णस्य मम रूपं चतुधी यजन्ति । अधिकारिभेदत्वेनाधिकारिणं भिनत्तीत्यधिकारिभेदं रूपं तद्भावस्तत्त्वं तेन । के युगानुवर्तिनः । कृते शुक्लं त्रेतायां रक्तं द्वापरे पीतं कलौ श्याममिति । सर्वेऽपि सुमेधसः । विष्णुपराङ्मुखास्तु दुर्बुद्धयः । तानि चत्वारि रूपाण्याह गोपालं सानुजं रामं रुक्मिण्या सह तत्परम् ॥ गोपालमिति । गोपालं श्यामं कलौ यजन्ति । सानुजम्, अनु पश्चाज्जाती प्रद्युम्नानिरुद्धौ ताभ्यां सहितमनिरुद्धं पीतं द्वापरे । प्रद्युम्नं रक्तं त्रेतायाम् । रामं संकर्षणं श्वेतं कृते । रुक्मिण्या सह वर्तमानं तत्परं तस्याः प्रियम् । चत्वार्यपि ममैव रूपाणीत्याह गोपालोऽहमजो नित्यः प्रभुम्नोऽहं सनातनः । रामोऽहं ह्यनिरुद्धोऽहमात्मानमर्चयेद्बुधः ।। मयोक्तेन स्वधर्मेण निष्कामेन विभागशः। तैरयं पूजनीयो वै भद्रकृष्णो निवासिभिः ॥ गोपालोऽहमिति । मदर्चनं पूजयितुः स्वार्चनमेवेत्याह-आत्मानमिति । वस्तु. तस्त्वहंग्रहोपासनपरो मन्त्रः । अजो नित्यो वासुदेवोऽहं प्रद्युम्नोऽहमित्यात्मानमर्चये. दित्यन्वयः । मयोक्तेन वेदोक्तेन । 'यस्य निःश्वसितं वेदाः' इति श्रुतेः । निष्कामेन फलाभिसंधानरहितेन । विभागशो युगविभागेन वर्णभेदेन वा । तैलोकैरयमात्मा भद्रकृष्णो भद्रवनवने कृष्णः । तन्निवासिभिः, तत्प्रदेशम्य पुण्यतमत्वात् । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy