SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २१६ नारायणविरचितदीपिकासमेताफलमाह स मोक्षमभुते स ब्रह्मत्वमधिगच्छति स ब्रह्मविद्भवति स मोक्षमिति । त्रयाणां व्युत्क्रमेण प्राति या । गोपालपदनिर्वचनमाह गोपाञ्जीवान्वा आत्मत्वेनाऽऽ सृष्टिप ___ यन्तमालाति स गोपालो भवति ह्यों गोपानिति । गोपानिन्द्रियपालकान् । आ सृष्टिपर्यन्तम् । आङो व्याख्यानं सृष्टिपर्यन्तमिति । स गोपालो गोपालशब्दवाच्यो भवति । हि निश्चितम् । कः श्रेष्ठोऽवतारो यं स्मृत्वाऽस्माल्लोकान्मुक्ता भवन्तीतिप्रश्नस्योत्तरमुक्त्वा कथमस्यावतारस्य ब्रह्मतेत्यस्योत्तरमाह तद्यत्तत्सत्परं ब्रह्म कृष्णात्मको नित्यानन्दैकरूपः सोऽहम् । तद्यदिति। ओंकारादिवाच्यं तदेवेत्यर्थः । तदेव यत् । तदेव सत् । तदेव परं ब्रह्म। नित्यानन्दैकरूपः । नित्यानन्द एवैकं रूपं यस्य सोऽहं स एवाहं न शोकभाक् । .. ॐ तद्गोपालदेव एव परं सत्यमवाधितं आत्मनो गोपालैक्यमुक्त्वा गोपालस्य परब्रह्मणैक्यमाह-ॐ तगोपालदेव एवेति। आत्मनो गोपालेनैक्यभावने प्रकारमाह सोऽहमित्यात्मानमादाय मनसैक्यं कुर्यात्, सोऽहमित्यात्मानमिति । मनसा बुद्ध्या । कथमैक्योल्लेखोऽत आह आत्मनो गोपालोऽहमिति भावयेत्स एवाव्यक्तोऽनन्तो नित्यो गोपालः। आत्मनो गोपालोऽहमिति भावयेदिति । स एवाव्यक्तो मायोपाधिः । अनन्तो देशतः परिच्छेदशून्यः । नित्यः कालतः परिच्छेदरहितः । कदाचिदपीमां पुरी न जहामीत्याह मधुरायां स्थितिब्रह्मन्सर्वदा मे भविष्यति । शङ्खचक्रगदापद्मवनमालामृतस्तु वै ॥ चित्स्वरूपं परं ज्योतिःस्वरूपं रूपवर्जितम् । सदा मां संस्मरन्ब्रह्मन्मत्पदं याति निश्चितम् ।। मधुरायामिति । भविष्यति कदाचिदपि न त्यक्ष्यामीत्यर्थः । हरेः पूजनस्य सर्वत्र महाफलत्वेऽपि मथुरायां विशेष इत्याह-- For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy