________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गोपालोत्तरतापनीयोपनिषत् ।
२१५
गर्भेति । अथवा ता हीति द्वादशमूर्तीनां भजने सर्वस्याधिकारिणः फलम् ॥१४॥
अत्रार्थे मन्त्रसंमतिमाह-तदप्येते श्लोकाः
प्रथमां मधुरं रम्यां सदा ब्रह्मादिसेविताम् । शङ्खचक्रगदाशार्ङ्गरक्षितां मुशलादिभिः ॥
तदपीति । प्रथमां मुख्यां मधुरां मधुपुरीम् । मुशलादिभी रक्षितामिति शेषः । अत्रासौ संस्थितः कृष्णस्त्रिभिः शक्त्या समाहितः । रामानिरुद्धमद्युन्नै रुक्मिण्या सहितो विभुः ॥
त्रिभी रामानिरुद्धप्रद्युम्नैरित्यन्वयः । शक्त्या रुक्मिण्या सहित इति चान्वयः । चतुःशब्दो भवेदेको ह्योंकारः समुदाहृतः ।
चतुःशब्द इति । एकोऽपि देवो वासुदेवादिचतुः शब्दवाच्यो भवेत् । ओंकारः समुदाहृतः । ओंकारस्य सार्धनतुर्थमात्रत्वात् । तत्रार्धमात्रात्मको वासुदेवः । प्राज्ञ आनन्दमयो मकारात्मकोऽनिरुद्धः । तैजसः स्वप्नाभिमान्युकारात्मकः प्रद्युम्नः । विश्वोऽकारात्मकः संकर्षणः । यथा वक्ष्यति
तथाच रामतापनीये
Acharya Shri Kailashsagarsuri Gyanmandir
" रोहिणीतनयो राम्रो अकाराक्षरसंभवः । तैजसात्मकः प्रद्युम्न उकाराक्षरसंभवः || प्राज्ञात्मकोऽनिरुद्धो वै मकाराक्षरसंभवः । अर्धमात्रात्मकः कृष्णो यस्मिन्विश्वं प्रतिष्ठितम्” इति ॥
“अकाराक्षरसंभूतः सौमित्रिर्विश्वभावनः । उकाराक्षरसंभूतः शत्रुघ्नस्तैजसात्मकः ॥
प्राज्ञात्मकस्तु भरतो मकाराक्षरसंभवः ।
अर्धमात्रात्मको रामो ब्रह्मानन्दैकविग्रहः" इति ॥
तस्यैव चतुर्मूर्तेः कृष्णावतारत्वात् । ओंकारश्च कृतस्तथेति वा पाठः ।
तस्मादेव परो रजस इति सोऽहमि - त्यवधार्य गोपालोऽहमिति भावयेत् ।
तस्मादेवेति । यत एवं तस्मात् । परो रजस इति । रजसः परः परोरजास्तस्मै नम इत्यवधार्य सोऽहं स पुमानेवाहमित्यवधार्य गोपाल एवाहं न शोकभोगिति भावयेत् । भावना चिन्तनम् ।
१. 'गित्यवधारये ।
For Private And Personal