SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नारायणविरचितदीपिकासमेतालिङ्गानि चतुर्विशतिर्भवन्ति द्वे वने स्तः कृष्णवनं भद्रवनं तयोरन्तदश वनानि पुण्यानि पुण्यतमानि तेष्वेव देवास्तिष्ठन्ति सिद्धाः सिद्धि प्राप्तास्तत्र हि रामस्य रामा मूर्तिः प्रधुम्नस्य प्रद्युम्नमूर्तिरनिरुद्धस्यानिरुद्धमूर्तिः कृष्णस्य कृष्णमूर्तिर्वनेष्वेव मधुरास्त्रेव द्वादश मूर्तयो भवन्ति ॥ १३ ॥ तत्रेति । एषां नामानि नारसिंह उक्तानि । सप्त मुनयो गौतमभरद्वाजविश्वामित्र. जमदग्निवसिष्ठकश्यपात्रयः । पञ्च विनायका मोदप्रमोदामोदसुमुखदुर्मुखाः । वीरेश्वरादयः सप्त कण्ठोक्ता एतदाद्यान्येतत्प्रभृतीनि लिङ्गानि चतुर्विशतिर्भवन्ति वर्तन्ते । तेषां नामानि पुराणतोऽवगन्तव्यानि । द्वे वने स्तो भिन्ने द्वादशभ्यः । तयोर्वनयोरन्तर्मध्ये द्वादश पूर्वोक्तानि सन्ति । पुण्यानीति सर्वेषां विशेषणं तेषां मध्ये केषांचिदतिशयद्योतनाय पुण्यतमानीति । तेषु देवास्तिष्ठन्त्येव । तेषु सिद्धास्तपोभिः सिद्धि प्राप्ताः । तत्र हि वनविशेषे । रामस्य बलभद्रस्य । रामा रमणीया मूर्तिः । प्रकृष्टं द्युम्नं द्रविणं यस्यास्तादृशी प्रद्युम्नस्य मूर्तिः । अथवोदपेषं पिनष्टीतिवदेकत्र प्रातिपदिकार्थो न विवक्षितः । एवं मधुरासु मधुरायां वनेषु । अवयवाभिप्रायं बहुवचनम् । द्वादशसु द्वादश मूर्तयो भवन्ति वर्तन्ते ॥ १३ ॥ तासां प्रत्येकमुपासकानाह एकां हि रुद्रा यजन्ति द्वितीयां हि ब्रह्मा यजति तृतीयां हि ब्रह्मजा यजन्ति चतुर्थी मरुतो यजन्ति पञ्चमी विनायका यजन्ति षष्ठी वसवो यजन्ति सप्तमीमृषयो यजन्त्यष्टमी गन्धर्वा यजन्ति नवमीमप्सरसो यजन्ति दशमी हि दिवोऽन्तर्धाने तिष्ठत्येकादश्यन्तरिक्षपदं गता द्वादशी तु भूम्यां तिष्ठति एकां हीति । ब्रह्मजा ब्रह्मपुत्राः सनकादयः । मरुतो मरुद्गणाः। दशमी मूर्तिः । हि निश्चितम् । दिवो द्युलोकस्यान्तर्धाने धुलोकेनाऽऽवृतालोकाऽप्रत्यक्षा तिष्ठति । अन्तरिक्षपदमन्तरिक्षलोकस्तं गता प्राप्ता। द्वादशी भूम्यां भूलोके। ता हि ये यजन्ति ते मृत्युं तरन्ति मुक्तिं लभन्ते ता हि तिस्रो मूर्तयो द्युसदोऽन्तरिक्षसदः पृथिवीषदः प्रसिद्धा देवा यनन्ति । भजनफलम् । त इति । मुक्तिं कल्पावसाने लभन्ते । मुक्तौ किं स्यादत आह गर्भजन्मजरामरणतापत्रयात्मकं दुःखं तरन्ति ॥ १४ ॥ १ ग. सिद्धिप्रा। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy