SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailashsagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २०६ नारायणविरचितदीपिकासमेतापालकं पशुपालकत्वलक्षणां हीनदशामाश्रितं कृष्णं ध्यातॄणां कर्ममूलनिर्हणनम् । हि निश्चितम् । सकामं निर्धार्य ता गोप्य उचिरे जगुः । उवाच ताः कृष्णमनुः कृष्णो मनुरिव धर्मोपदेष्टा ताः प्रत्युवाच । कृष्णस्य गोपीनां च वाको वाक्यमभूदित्यर्थः । गोपीनां वचः कस्मा इति । भैक्षं भिक्षासमूहः ' भिक्षादिभ्योऽण् ' । दातव्यमित्यर्हार्थे कृत्यः । यद्दानेन कृतार्थाः स्यामेति प्रश्नः । कृष्णवाक्यं दुर्वाससेतीति । संधिस्तु हे सखेतीतिव. च्छान्दसः प्रामादिको वा। कथं यास्यामोऽतीर्खा जलं यमुनायाः, गोपीनां वचः कथमित्यादि । अती| जलं यमुनाया इति । यमुनाया अगाधं जलं मध्ये वर्तते तच्चास्माभिः ससंभाराभिः स्त्रीभिस्तरीतुमशक्यं कश्चिदुपायोऽस्ति येन तज्जलमतीत्वैवास्पृष्टदैव दुर्वाससे यामो भवानतुलबुद्धिपराक्रमोऽस्ति तेन पृच्छामः । मा गुरिति चेन्नेत्याहुः यतः श्रेयो भवति यतः श्रेयो भवतीति । श्रेयस्यस्माकं यद्गुरुतरेच्छा वर्तते तच्च श्रेयोऽतिथिरूपय. तिभैक्षादानमन्तरेण न भवति । ततो यमुनानलस्पर्शमन्तरेण तद्गमनोपायं नो ब्रूहीति गोपीवाक्यार्थः । कृष्णेति' कृष्णो ब्रह्मचारीत्युक्त्वा मार्ग वो दास्यत्युत्ताना भवति यं मां स्मृत्वा, कृष्णवाक्यं कृष्णेतीति । कृष्णेति प्रातिपादिकार्थमुपक्रम्यायं ब्रह्मचारी कृष्ण इति सत्यं वचः शपथरूपमुक्त्वा स्थितानां सत्यवादिनीनां वो युष्माकमनेन सत्यवादेन मार्ग दास्यतीति कृष्णोपदेशवाक्यार्थः । तथा पक्षान्तरमाह __ अगाधा गाधा भवति *यं मां स्मृत्वा, अगाधेति । यदि भवतीनां मार्गदानेच्छा तर्हि मार्ग दास्यति यदि वोत्तानतेच्छा तीत्ताना भवति भविष्यति 'वर्तमानसामीप्ये वर्तमानवद्वा' । यं मां स्मृत्वेति पूर्वेण संबध्यते । यं मां स्मृत्वाऽगाधा गाधा भवतीति । इदमल्पं कार्य मुग्धासाध्यमपि मत्स्मरणमात्रेण सिध्यतीति कैमुतिकन्यायेनाऽऽह अपूतः पूतो भवति यं मां स्मृत्वाऽवती व्रती भवति यं मां स्मृत्वा, अपूत इति । यं मां कृष्णं स्मृत्वा संचिन्त्यापूतो महापातकादिदुष्टोऽपि पूतो * अत्रोत्तरत्रापि च ख. पुस्तके यं मामित्यत्र यन्मामिति पाठो दृश्यते । १ ख इ. 'ति । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy