SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोपालोत्तरतापनीयोपनिषत् । २०५ उपसंहरति तस्मात्कृष्ण एव परो देवस्तं ध्यायेत्तं रसेत्तं भजेत्तं भजेदित्यों तत्सदिति ॥ ८ ॥ इत्यथर्वोपनिषदि गोपालपूर्वतापनीयोपनिषत्समाप्ता ॥ ११ ॥ तस्मादिति । रसेन्नाम गृह्णीयात्तस्येत्यर्थः । तं भजेदिति द्विरुक्तिः समाप्त्यर्था । ॐ तत्सदिति ब्रह्मव्यपदेशः “ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः” इति स्मृतेः ॥ ८॥ नारायणेन रचिता श्रुतिमात्रोपजीविना । अस्पष्टपदवाक्यानां दीपिका कृष्णपूर्वके ॥ १ ॥ इति नारायणविरचिता गोपालपूर्वतापनीयोपनिषद्दीपिका समाप्ता ॥ १६ ॥ - ॐ तत्सब्रह्मणे नमः। गोपालोत्तरतापनीयोपनिषत्। नारायणविरचितदीपिकासमेता । खण्डोनविंशतियुता कृष्णासङ्गत्वदर्शिनी । सप्तचत्वारिंशत्तमी गोपालोत्तरतापनी ॥ १ ॥ ज्ञानिनोऽकर्तृत्वमभोक्तृत्वं च ज्ञापयितुं कृष्णगोपीसंवादरूपामाख्यायिकामारचयति ॐ एकदा हि व्रजस्त्रियः सकामाः शर्वरीमुषित्वा सर्वेश्वरं गोपालं कृष्णं हि ता ऊचिरे। उवाच ताः कृष्ण मनुः कस्मै ब्राह्मणाय भैक्षं दातव्यं भवति दुर्वाससेति । एकदा हीति । एकदा कदाचित् । हि निश्चितम् । अत्र प्रायेण हिवैशब्दा निश्चयार्था एव । सकामाः कामक्रीडासहिताः कृष्णेन सह विलसन्त्य इत्यर्थः । शर्वरीमुपित्वा । अत्यन्तसंयोगे द्वितीया । पूर्णां रात्रि कामक्रीडासक्तं कृष्णं पश्यन्त्यः कौतुकमनुभूयेत्यर्थः । सर्वेश्वरं गोपालं सर्वेषामीश्वरमनन्तकोटिब्रह्माण्डाधीश्वरमपि सन्तं गवां १ ग. रं । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy