SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २०४ नारायणविरचितदीपिकासमेतानमः पापप्रणाशाय गोवर्धनधराय च ॥ पूतनाजीवितान्ताय तृणावर्तासुहारिणे ॥ ८॥ अहिमर्दिने कालीयदर्पदलनाय । तथा च मन्त्रवर्णः "कालीयको नाम सर्पो नवनागसहस्रबलः । यमुनादेशो जातो नारायणवाहनः” इति ॥ ॥६॥ ७ ॥ ८॥ निष्कलाय विमोहाय शुद्धायाशुद्धवैरिणे ।। अद्वितीयाय महते श्रीकृष्णाय नमो नमः ॥९॥ प्रसीद परमानन्द प्रसीद परमेश्वर ॥ आधिव्याधिभुजंगेन दष्टं मामुद्धर प्रभो ॥१०॥ श्रीकृष्ण रुक्मिणीकान्त गोपीजनमनोहर । संसारसागरे मग्नं मामुद्धर जगद्गुरो ॥ ११ ॥ केशव क्लेशहरण नारायण जनार्दन । गोविन्द परमानन्द मां समुद्धर माधव ॥ १२ ॥ निष्कलाय "कला स्यान्मूलतो वृद्धौ शिल्पे चाण्वंशमात्रके । षोडशांशे च चन्द्रस्य कला नौकालयोः कला" इति कोशः । यथार्ह तद्रहिताय । अशुद्धाः कंसादयस्तेषां वैरिणेऽन्तकाय ॥ ९ ॥ १० ॥ ११ ॥ १२ ॥ अथ हैवं स्तुतिभिराराधयामि अथ हैवं स्तुतिभिराराधयामीति । अथ पश्चादद्याप्येवं कृष्णं स्तुतिभिराराधयामि साधयाम्यनुकूलं करोमि । मदुपदेशं भवन्तोऽप्यर्हन्त्वित्याह ते यूयं तथा पञ्चपदं जपन्तः श्रीकृष्णं ध्यायन्तः संसृतिं तरिष्यथेति स होवाच हैरण्यः। अमुं पञ्चपदं मन्त्रमावर्तयेद्यः स यात्यनायासतः केवलं तत्। अने जदेकं मनसो जवीयो नैतद्देवा आनुवन्पूर्वमर्षदिति ते यूयमिति । तथा यथाऽहं जपामि । अमुं पञ्चपदमावर्तयेयः स यात्यनायासतः केवलं तदिति पूर्वार्धपाठो युक्तः । एवं तद्युत्तरार्धसमानाक्षरतया त्रिष्टुप्स्यात् । अनायासतोऽप्रयत्नात्केवलं शुद्धं तद्ब्रह्मानेजत्स्थिरमपि मनसो जवीयः । यत्र मनो याति तत्रापि सत्त्वात् । देवा वागादय एतन्नाऽऽप्नुवन्न प्राप्ताः । यतो वाचो निवर्तन्ते' इति श्रुतेः । यतः पूर्वमर्षत् । ऋष गतौ । व्याप्य गतवत् । . For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy