________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोपालपूर्वतापनीयोपनिषत् । अनुष्टुब्द्धयमुक्त्वा वृत्तान्तरमाह
ततो विशुद्धं विमलं विशोकमशेषलोभादि निरस्तसङ्गम् ।
यत्तत्पदं पञ्चपदं तदेव स वासुदेवो न यतोऽन्यदस्तिः ।। तत इति । अशेषलोभादि न शेषा लोभादयो यस्मिन् । यतो निरस्तसङ्गम् । एवंविधं यत्पदं ब्रह्माख्यं पञ्चपदं तदेव ब्रह्मरूपमेव ब्रह्मात्मकोऽष्टादशाक्षर इत्यर्थः । यत्पश्चपदं स वासुदेवो ब्रह्मात्मकमन्त्रस्वरूपो वासुदेवो यतो वासुदेवादन्यन्नास्ति ।
तमेकं गोविन्दं सच्चिदानन्दविग्रहं पञ्च
पदं वृन्दावने सुरभूरुहतलासीनं सततं तमेकमित्यादि गद्यम् । सुरभूरुहः कल्पवृक्षस्तस्य तले सततमासीनम् । सततमित्यनेन नित्यसंनिहितत्वमुक्तं तेन द्वापारान्त एवेति न भ्रमितव्यम् ।
समरुद्गणोऽहं परमया स्तुत्या तोषयामि । समरुद्गणोऽहं परमयति । मरुद्गणैरूनपञ्चाशद्भिः सहितः परमया मुख्यया स्तुत्या. स्तबनेन तोषयामि प्रीणयामि । स्तुतिमेवाऽऽह, ॐ नम इत्यादिद्वादशभिः श्लोकैः
ॐ नमो विश्वरूपाय विश्वस्थित्यन्तहेतवे ॥ विश्वेश्वराय विश्वाय गोविन्दाय नमो नमः ॥१॥ नमो विज्ञानरूपाय परमानन्दरूपिणे ॥ कृष्णाय गोपीनाथाय गोविन्दाय नमो नमः ॥२॥ नमः कमलनेत्राय नमः कमलमालिने । नमः कमलनाभाय कमलापतये नमः ॥३॥
बर्हापीडाभिरामाय रामायाकुण्ठमेधसे । रमामानसहंसाय गोविन्दाय नमो नमः ॥ ४ ॥ कंसवंशविनाशाय केशिचाणूरघातिने ॥
वृषभध्वजवन्याय पार्थसारथये नमः ॥५॥ बर्हाणां मयूरपिच्छानामापीडो मुकुटस्तेनाभिरामाय. स्वरूपेणापि रामायाभिरामाय ॥ ४ ॥ ५ ॥
वेणुवादनशीलाय गोपालायाहिमदिने ॥ कालिन्दीकुललोलाय लोलकुण्डलधारिणे ॥६॥ बल्लवीनयनाम्भोजमालिने नृत्यशालिने ॥ नमः प्रणतपालाय श्रीकृष्णाय नमो नमः ॥ ७ ॥
For Private And Personal