SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नारायणविरचितदीपिकासमेताइमां मुद्रां जानन्क्षपयति नरस्तं सुरगणा नमन्त्यस्याधीना भवति सततं सर्वजनता" इति ॥ अथास्य धारणयन्त्रमुच्यते-- "पिण्डं मूलेन वीतं दहनपरयुगे कोणराजत्षडणे रर्यात्पा- दशार्ण स्फुरितदशदलं कामबीजेन वीतम् । पद्मं किञ्जल्कसंस्थस्वरविकृतिदलं प्रोल्लसत्षोडशार्ण किञ्जल्कव्यञ्जनाढ्यं विकृतिदलयुगेष्वर्पितानुष्टुबर्णम् ।। पाशाङ्कशाम्यामावीतं क्षी(क्षो)णीपुरयुगास्त्रि(स्त्रि)षु । अष्टाक्षरेण सहितं यन्त्रं गोविन्ददैवतम् । धर्मार्थकामफलदं सर्वरक्षाकरं स्मृतम् ॥ उंबीनमुक्तं षडर्णोऽप्युक्तः “गोपीजनान्ते प्रवदेवल्लभायाग्निसुन्दरी । अयं दशाक्षरो मन्त्रो दृष्टादृष्टफलप्रदः ॥ प्रणवं हृदयं कृष्णं डेन्तमुक्त्वा ततः परम् । तादृशं देवकीपुत्रं हुंफट्स्वाहासमन्वितम् ॥ षोडशाक्षरमन्त्रोऽयं गोविन्दस्य समीरितः । पिण्डं रतिपतेर्बीजं नमो भगवते ततः ॥ नन्दपुत्राय बालादिवपुषे श्यामलाय वा । गोपीजनपदस्यान्ते वल्लभाय द्विठावधि ।। अनुष्टुम्मन्त्र आख्यातो गोपालस्य जगत्पतेः । अनङ्गः कृष्णगोविन्दौ डेन्तावष्टाक्षरो मनुः ॥ एते मनवः स्वातन्त्र्येणाप्युपास्याः । यद्वक्ष्यति___"तस्मादन्ये पञ्चपदादभूवन्गोविन्दस्य मनवो मानवानाम् । व दशार्णाधास्तेऽपि संक्रन्दनाद्यैरभ्यस्यन्ते भूतिकामैर्यथावत्" इति ॥ तल्लेखनप्रकारः । षट्कोणं लिखित्वा तन्मध्ये पिण्डबीजं लिखित्वा तन्मूलमन्त्रेण वेष्टयित्वा तद्वहिः पद्मं दशपत्रं षट्कोणेषु गोपालषडक्षरं लिखेत् । पत्रेषु दशाक्षरं लिखेत् । तत्पत्रे कामबीजं कामबीजेन वेष्टयेत् । ततः षोडशदलं तत्केसरेषु स्वरान्पत्रेषु षोडशाणं लिखेत् । तद्वहिवात्रिंशत्पत्रं व्यञ्जनकेसरमनुष्टुब्मन्त्रं पत्रेषु लिखेद्वहिः पाशा शवेष्टितम् । तद्वहि पुरं द्वैध कोणेषु गोपालाक्षरमन्त्रवर्णालिखेत् । लेखनं यथावत्कार्यम् ॥ ४ ॥ १ क. 'पुरद्वेधं । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy