________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गोपालपूर्वतापनीयोपनिषत् ।
१९१
इत्यर्थः । अङ्गानि पञ्च पूर्वोक्तानि तान्याग्नेयादिकोणेषु चत्वारि दिशास्वस्त्रमिति क्रमेण पूजयेत् । वासुदेवादयो मूर्तयश्चतस्रः संशक्तिका रामचन्द्रावरण उक्ताः । शारदोक्ता वासुदेवसंकर्षणप्रद्युम्नानिरुद्धाः शान्तिश्रीसरस्वतीरतिसहिताः पत्रमूलेषु पूज्याः । रुक्मि यादयोऽष्टौ पट्टरास्यः ।
वा यथा - " रुक्मिण्याख्या सत्या सनग्नजित्याह्वया सुनन्दा च । भूयश्च मित्रविन्दा सलक्ष्मणर्तनां (क्षीं) सुशीला च" इति ।
स्वशक्तयो विमलायाः ।
ता यथा - " विमलोत्कर्षणी ज्ञाना क्रिया योगेति शक्तयः । प्रह्वी सत्या तथेशानाऽनुग्रहा नवमी मता" इति ॥
तास्तु पीठशक्तयो मध्येषु दिक्षु च पीठपूजावसरे यष्टव्याः । अत्र तु पाठक्रमो न विवक्षितोऽर्यक्रमस्य बलीयस्त्वात् । रुक्मिण्यादिविशेष्यं वा स्वशक्तिग्रहणम् । इन्द्रादिग्रहणमैरावताद्यष्ट दिग्गजवज्रादीनामप्युपलक्षणं तेनेन्द्रादीनामादितो दिग्गजानामन्ते च वज्रादीनामावरणं द्रष्टव्यम् ।
ते यथा – “इन्द्रमग्निं यमं रक्षो वरुणं पवनं विधुम् ।
ईशानं पन्नगाधीशमध उर्ध्वे पितामहः" इति ॥
Acharya Shri Kailashsagarsuri Gyanmandir
अधऊर्ध्वग्रहणं तत्स्थानप्रदर्शनार्थं पूजा तु पूर्वेशानयोरन्तरे ब्रह्मणः । रक्षोवरुणयोरन्तरे पन्नगाधीशस्य । वज्रादयो यथा
"वज्रं शक्तिं दण्डमसिं पाशमङ्कुशकं गदाम् । शूलं चक्रं पद्ममेषामायुधानि क्रमाद्विदुः " इति ॥ अत्राप्यर्यक्रमादिदमावरणद्वयं सर्वेषामन्ते द्रष्टव्यम् । रक्षकत्वेन तेषां बहिरेवोचितत्वात् । ऐरावतादयो यथा
"ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः । पुष्पदन्तः सार्वभौमः सुप्रतीकश्च ते क्रमात् " इति ।
एत इन्द्रादिभ्यः प्राक्पूज्याः । वसुदेवादयो यथा --
+
"ततो यजेदलायेषु वसुदेवं च देवकीम् ।
नन्दगोपं यशोदां च बलभद्रं सुभद्रिकाम् ॥
गोपान्गोपीश्च गोविन्दं विलीनमतिलोचनान्" इत्यष्टौ ॥
पार्थादयः पञ्च पाण्डवाः सात्यकिर्जयन्तो विदुर इत्यष्टौ । केशवाचायैस्तु पार्था
दिस्थाने मन्दरादय उक्ताः ।
१ क. स्वशक्तिका ।
For Private And Personal