________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोपालपूर्वतापनीयोपनिषत् । भक्तिरस्येति । इहास्य लोकस्यामुत्र परलोकस्य च य उपाधिः फलं तन्नैराश्येन तत्र स्पृहां त्यक्त्वैवामुष्मिकृष्णे मनःकल्पनं भक्तिरेतदेव च नैष्कर्म्य संन्यासः । भजनरसनयोर्मसंमतिमाह*कृष्णं सन्तं विमा बहुधा यजन्ति गोविन्दं सन्तं बहुधा रसन्ति
गोपीजनवल्लभो भुवनानि दधे स्वाहाश्रितो जगदैजयत्सुरेताः, . गोविन्दं सन्त्रमिति । कृष्णं सन्तमिति युक्तः पाठो गोविन्दं सन्तमित्यो दर्शनात् । विप्रग्रहणेन ब्राह्मणानां भजने मुख्योऽधिकारो दर्शितः । तदुक्तं भगवता-"मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ।
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा" इति ॥ बहुधा यज्ञव्रततपोदानादिभिर्यजन्ति पूजयन्ति । रसन्त्युच्चरन्ति । रसयन्तीति युक्तः पाठः । न ध्यायेन्न रसयेदित्युपसंहारेऽपि ण्यन्तप्रयोगदर्शनात् । तदुक्तम्-"गोविन्देति सदा स्नानं गोविन्देति सदा जपः ।
गोविन्देति सदा ध्यानं सदा गोविन्दकीर्तनम्" इति ॥ दः धृतवान्दधाति । स्वाहा माया तदाश्रितोऽसौ सुरेताः सुवीर्यः सञ्जगद्विश्वमैनयन्नानागतिकं चकार । तदुक्तम्-"मम योनिर्महद्ब्रह्म तस्मिन्गर्भ दधाम्यहम् "इत्यादि। कामस्य दुर्जयत्वेन जगदेनकत्वम् । स्वरूपेणैकस्यापि पञ्चपदानुगतत्वे दृष्टान्तं मन्त्रेणाऽऽह
वायुर्यथैको भुवनं प्रतिष्ठो जन्ये जन्ये पञ्चरूपो बभूव ।
कृष्णस्तथैकोऽपि जगद्धितार्थ शब्देनासौ पञ्चपदो विभातीति ॥२॥ वायुर्यथैक इति । जन्ये जननार्हे प्राणिनि । वीप्सायां द्वित्वम् । पञ्चरूपः प्राणापानादिभेदेन । पञ्चपदो विभाति पञ्च पदानि निमित्तभेदेन वाचकानि यस्य स विभाति प्रकाशतेऽभिधीयत इत्यर्थः । एतेनैकाधिष्ठातृत्वकथनास्मीन्दुप्रकाशो दर्शितः। इममर्थ पञ्चमखण्डे स्पष्टं वक्ष्यत्येको वशीत्यादिना ॥ ३ ॥ इदानीं मुनयस्तस्योपासनप्रकारं पृच्छन्तिते होचुरुपासनमेतस्य परमात्मनो गोविन्दस्याखिलाधारिणो
बहीति तानुवाच ब्रह्मा यत्तस्य पीठं हैरण्यमष्टपलाशमम्बुजं ते होचुरिति । अखिलाधारिणः । अखिलमाधरति तच्छीलोऽखिलाधारी तस्य । उवाच ब्रह्मा । हैरण्यं सुवर्णमयम् । अष्टपलाशमष्टपत्रमम्बुजं कमलम् । इदं पूजापीठमष्टपलाशं धारणयन्त्रं तु दशपलाशं भवति ।
. तदन्तरालिकानलास्रयुगं तदन्तराऽऽद्यार्ण विलिखीत
* कृष्णमित्यत्र व्याख्यानुरोधेन गोविन्दमिति पाठोऽनुमीयते ।
For Private And Personal