SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १८८ नारायणविरचितदीपिकासमेताकृष्णो देवता क्लीं बीज स्वाहा शक्ति कीलकं वं जीवः । उद्धारादिकमुक्तं च शार• दातिलके "कृष्णाय पदमाभाव्य गोविन्दाय ततः परम् । गोपीजनपदस्यान्ते वल्लभाय द्विठावधिः ॥ कामबीजादिराख्यातो मनुरष्टादशाक्षरः । नारदोऽस्य मुनिः प्रोक्तो गायत्रं छन्द उच्यते ।। देवता कथिता कृष्णः सर्वकामफलप्रदः । चतुष्करणवेदाब्धिनेत्रसंख्याक्षरैः क्रमात् ।। पञ्चाङ्गानि मनोः कुर्यान्मन्त्रविजातिसंयुतैः” इति ॥ २॥ तदेष श्लोकःब्राह्मणोक्तमर्थ त्रयोदशाक्षरेणातिजगतीमन्त्रेण निश्चिनोति-तदेष श्लोक इति । कामबीजमाह क्लीमित्येवाऽऽदावादाय कृष्णाय योगं गोविन्दायोत च । गोपीजनवल्लभाय बृहद्घनं श्यामं तदप्युच्चरेद्यो गतिस्त स्यास्ति मक्षु नान्या गतिः स्यादिति क्लीमित्येवाऽऽदाविति । आदौ प्रथमत आदाय गृहीत्वा । कीदृशं क्लीमिति कृष्णाय योगं कृष्णायेति पदेन युक्तं गोविन्दायोतापि चाऽऽदाय । बृहद्घनं च श्यामवर्ण तदपि मायारूपं संसारकारणं स्वाहेति पदमुच्चरेत् । अविद्या हि तमोरूपा तमश्च श्यामं भवति । य उच्चरेद्गतिः प्राप्तिस्तस्य कृष्णस्यास्ति मञ्जु शीघ्रम् । मधु शीघ्र भृशार्थेऽपि तत्त्वार्थेऽपि क्वचिन्मतमिति विश्वः । नान्या गतिः स्यात् । कृष्णस्यैव गतिः स्यान्नान्या संसारगतिरित्यर्थः । तदुक्तम्- "कृष्णे रताः कृष्णमनुस्मरन्ति रात्रौ च कृष्णं पुनरुत्थिता ये । ते भिन्नदेहाः प्रविशन्ति कृष्णं हविर्यथा मन्त्रहुतं हुताशे" इति ।। . बृहद्भावनया सकृदप्युञ्चरेद्यदिति पाठे भावना होमविधानहेतुभूता स्वाहैव तया सहेति स एवार्थः । महाश्रद्धयेति च तन्त्रेणार्थः । रसनमुक्त्वा भजनमाह भक्तिरस्य भजनं तदिहामुत्रोपाधिनैराश्येनैवामुष्मिन्मनःकल्पनमेतदेव च नैष्कर्म्य १ क. इयामा । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy