SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोपालपूर्वतापनीयोपनिषत् | १८५ प्रदः पिता" इति च । बीजं तु मायापतिः पुरुषोत्तम इति ज्ञेयः । य उक्तः - ' - "तदैक्षत बहु स्यां प्रजायेय" इति । " इन्द्रो मायाभिः" इति च । “देवी ह्येषा गुणमयी मम माया" इति च । न चैवं मन्त्रस्य नानादैवतत्वापत्तिः “वायुर्यथैको भुवनम् " इत्यादिनैकत्वस्य वक्ष्यमाणत्वात् । कृष्णादिशब्दार्थ पृच्छति तदु होचुः कः कृष्णो गोविन्दश्च कोऽसाविति गोपीजनवल्लभः कः का स्वाहेति तानुवाच ब्राह्मणः पापकर्षणो त होचुः कः कृष्ण इति । कृष्णशब्दस्य किं प्रवृत्तिनिमित्तमित्यर्थः । एवमुत्तरत्रापि । पापकर्षणः । पापानि कर्षति कृष्णः । एतन्मूलविरोधात्कृषिर्भूवाचक इत्यादिरन्थ इति लक्ष्यते । 1 गोभूमिवेदविदितो वेदिता गोपीजनाविद्याकलामेरकः । गोभूमीति । गोभूमिवेदैर्विदितः । विग्रहस्तु गां सौरभेयीं गां भूमिं गां वाचं वेदं वा विन्दतीति गोविन्दः । ' पाघ्राध्माधेदृशः शः' इत्यत्र 'गवि विन्देः संज्ञायाम्' इति वार्तिकेन शप्रत्ययः । ज्ञानमपि लाभः । वेदिता तेषां ज्ञातेत्यर्थः । गोपीजनस्य या अविद्याकला अविद्यावयवास्तासां प्रेरको निवर्तको गोपीजनवल्लभः । कामरागाद्यविद्यानिवर्तनेन स्वात्मभावप्रद् इत्यर्थः । तासां तदुल्लेख यथा— " हरिगो मतिमति किमिदं हरिहरिहरिणा कथं सङ्गः । जातं पीतं वसनं मेचकमङ्गं गतोऽङ्गनाभावः " ॥ 'वल व संवरणे' इति पाणिनिस्मरणाद्वल्लभः संवरीता । यद्वा गोपीजन एवाssसमन्ताद्विद्याकला ज्ञानप्रदो ग्रन्थभागः । 'गोप्यो गाव ऋचः' इति श्रुतेः । तासां प्रेरकः स्वोन्मुखतासंपादकः । तन्माया चेति का स्वाहेत्यस्योत्तरम् । तन्माया चेति । तस्य कृष्णस्य माया स्वाहेत्यर्थः । नन्वेवं कृष्णादिदेवताभेदः स्यानेत्याह सकलं परं ब्रह्मेतो ध्यायति रसति भजति सोऽमृतो भवति सोऽमृतो भवतीति ॥ १ ॥ सकलमिति । सकलं चतुष्टयमपि ब्रह्मतत्कृष्णाख्यमेतच्च यो ध्यायति रसति वदति भजति सेवते सोऽमृतो मोक्षभाग्भवति । द्विरुक्तिः खण्डसमाप्त्यर्था ॥ १ ॥ ते होचुः किं तद्रूपं किं रसनं कथं वाऽहो तद्भजनं तत्सर्वं विविदिषतामाख्याहीति तदुहोवाच हैरण्यो गोपवेषमभ्राभं तरुणं कल्पद्रुमाश्रितं तदिह श्लोका भवन्ति २४ For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy