SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १८४ नारायणविरचितदीपिकासमेताकृष्णायेति । सदानन्दायेत्यर्थः । स्वरूपलक्षणमुक्त्वा जगत्कर्तृत्वेन तटस्थलक्षणमाहभक्लिष्टेति । अक्लिष्टं क्लेशरहितं यथा भवति तथा सर्वं करोति तस्मै । तज्ज्ञानोपायमाहवेदान्तति । औपनिषदत्वात् । वेदकर्तृत्वेन लक्षणम्-गुरव इति । वेदोपदेशे । बुद्धिसाक्षिणे बुद्ध्यादीनां साक्षादृष्ट्रे । अन्यायिभिर्वश्चयितुमशक्यायेति यावत् ॥ १ ॥ अष्टादशाक्षरमन्त्रदेवतां निरूपयितुमाख्यायिकामाह * मुनयो ह वै ब्राह्मणमूचुः कः परमो देवः कुतो मृत्युबि भेति कस्य विज्ञानेनाखिलं भाति केनेदं विश्वं संसरतीति ॐ मुनय इति । ब्रह्मणः प्रत्यगात्मनो हरेरपत्यं ब्राह्मणः स्वयंभूस्तमूचुः । जातिपुरस्कारेण प्रवृत्ते 'ब्राह्मोऽजातो' इति टिलोपाभावः । आकाशप्रभवो ब्रह्मेति क्रमेणोपादानम् । चतुर्पु प्रश्नेषु क्रमेणोत्तरमाह तदु होवाच ब्राह्मणः तनु होवाचेति । तत्तत्र प्रश्नेषु । उ अनर्थकः । ह प्रसिद्धौ । उवाचोत्तरम् । चतुर्दूहात्मकविष्णुवाचकाष्टादशाक्षर इत्यभिप्रायेणोत्तरयति श्रीकृष्णो वै परमं दैवतं श्रीकृष्णो वा इति । परमं दैवतं परमात्मा सदानन्दो वासुदेव इति यावत् । य उक्तो गीतायाम् "उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः" ॥ "वासुदेवः सर्वम्" इति च । गोविन्दान्मृत्युविभेति गोविन्दान्मृत्युविभेतीति । स संकर्षणव्यूहो य उक्तः- " कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः ” इति । - गोपीजनवल्लभज्ञानेन तज्ज्ञातं भवति गोपीति । अयमनिरुद्धव्यूहः । य उक्तः--"स एष इह प्रविष्टः" इति “यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः" इति च “ययेदं धार्यते जगत्" इति च । अत्र च वक्ष्यति "गोपीजनवल्लभो भुवनानि दः" इति । यस्य ज्ञानेन तदखिलं विश्वं ज्ञातं भवति । स हि जगदात्माऽऽत्मनि च ज्ञाते सर्व ज्ञातं भवति । स्वाहेदं संसरतीति स्वाहेति । अयं प्रद्युम्नव्यूहः । य उक्तः- "मम योनिर्महद्ब्रह्म तस्मिन्गर्भ दधाम्यहम्" इति "मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम्” इति च । “अहं बीज. १ घ. तज्ज्ञानं । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy