________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ॐ तत्सद्ब्रह्मणे नमः।
गोपालपूर्वतापनीयोपनिषत्।
नारायणविरचितदीपिकासमेता।
गोपालतापनीयोपनिषदाद्याऽष्टखण्डिका ।
षड्भिश्चत्वारिंशतां च पूरण्याथवपैप्पले ॥ १॥ आथर्वणपिप्पलशाखायामिदं तापनीयद्वयं कृष्णोपनिषञ्चेत्युपनिषत्रयमानातम् । तत्राऽऽद्या सगुणब्रह्मौपचारपूजनपरा मन्त्रजपध्यानपूजादिना हि तुष्टो देवः स्वात्मानं दर्शयतीति सा प्रथममाम्नाता तत्र गोपालस्य स्वरूपं नारसिंहे निर्णीतं शुद्धचिदानन्दस्वरूपो ह्यसौ मायया मूर्तिमान् । तत्राऽऽदौ कृष्णशब्दार्थमाह
** कृषि वाचकः शब्दो नश्च नि:तिवाचकः।
तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते ॥ १॥ कृषि वाचकः शब्द इति । कृषिरिति कृड्भूमिः । नश्च निर्वृतिवाचक इति । निवृतिरानन्दः सुखं शुद्धं ब्रह्मेति यावत् 'नः पुनर्वधशुद्धयोः' इत्येकाक्षरनिघण्टुः । कृड्भूमिः सर्वाधारः सन्नः शुद्धः कृष्णस्तयोरैक्यं सामानाधिकरण्यं तच्च यदा कर्मधारयेण भवति तदा परं ब्रह्म कृष्ण इति शब्देनाभिधीयते । सर्वकार्याधारत्वं मायाया अप्य. स्तीत्यत उक्तं न इति । तावन्मात्रे चैश्वर्यं न स्यादत उक्तं कृडिति । अथवा भूग्रहणं दृश्योपलक्षणं निर्वृतिः सुखस्वरूपं ब्रह्म तयोरैक्यमध्यासनिवृत्त्या शुद्धात्मतापादनमेव सति यत्सिद्धं तत्परं ब्रह्म कृष्णः । कस्मादिति प्रश्नोत्तरानुरोधाद्रष्टव्यम् । अयं श्लोकः कैश्चिन्न पठ्यते ॥ १॥ मङ्गलार्थमादावुपनिषत्प्रतिपाद्येष्टदेवतामेव प्रणमति
ॐ सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकारिणे ॥
नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥ १॥ ॐ सच्चिदानन्दरूपायेति । अनुभविनामादौ सद्रूपं भाति ततश्चिद्रूपं तत आनन्दरूपमिति क्रमेणोपादानम् । आद्यन्ताभ्यां प्रत्याहारेणोक्तार्थस्यैव ग्राहकं नामाऽऽह
* अयं श्लोकः कुत्राप्यादर्शपुस्तकेषु नोपलभ्यते परं च नारायणव्याख्यानुरोधादव प्रथित इति सुधीभिरुह्यम् ।
For Private And Personal