________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१८६ नारायणविरचितदीपिकासमेता
किं तद्रूपं तस्य कृष्णस्य रूपं कि रसनं शब्दानां नामेत्यर्थः । कथं वा । अहो संबोधने । तद्भजनं केन प्रकारेण तद्भजनं किं तदित्यर्थः । तत्सर्वं विविदिषतां वेदितुमिच्छतामस्माकमाख्याहि कथयेति। तत्तत्र । उ होवाच हैरण्यो हिरण्यगर्भो ब्रह्मा । किमुवाच । गोपवेषम् । गोपस्येव वेषो यस्य तम् । अभ्राभमभ्रमुन्नमितो धनस्तस्येवाऽऽमा यस्य तम् । अब्दाभमिति केषांचित्पाठः । अब्दो मेघः । तरुणं युवानम् । कल्पद्रुमाश्रितं देवतायाः कल्पतरुमूले चिन्तनीयत्वादेवमुक्तम् । तदिहेति । तत्तत्र । इहार्थे श्लोका मन्त्रा भवन्ति वर्तन्ते ।
सत्पुण्डरीकनयनं मेघाभं वैद्युताम्बरम् ।
द्विभुज ज्ञानमुद्राढ्यं वनमालिनमीश्वरम् ॥ सत्पुण्डरीकनयनं सद्विकसितं यत्पुण्डरीकं सिताम्भोजं तद्वन्नयने यस्य तम् ।
"पुण्डरीकं सिताम्भोजे सितच्छत्रे च गोबजे ।
कोषकारान्तरे व्याने पुण्डरीकोऽग्निदिग्गजे” इति विश्वः । मेघाभं मेघवर्णम् । वैद्युताम्बरं वैद्युते विद्युद्वर्णे अम्बरे यस्य तम् । ज्ञानमुद्राढ्यम् ।
"तर्जन्यङ्गुष्ठको सक्तावग्रतो हृदि विन्यसेत् । ___वामहस्ताम्बुजं वामे जानुमूर्धनि विन्यसेत् ॥
ज्ञानमुद्रा भवेदेषा रामचन्द्रस्य प्रेयसी" ॥ प्रेयसीत्यातिशायिकनिर्देशादन्येषामप्यवताराणां प्रियेति गम्यते । मौनमुद्रात्यमिति तु युक्तः पाठः । मौनवत्त्वस्यैव पूजनादिषु शान्तानां नियतत्वात्। तत्स्वरूपस्य च लोके प्रकाशनात् । गोपगोपीजनेषु गुप्तभावेन स्थितं ब्रह्मेत्यर्थः । वनमालिनं पुष्पपल्लवफलसमुदायो वनं तस्य मालैकसूत्रग्रन्थनं तद्वन्तम् । ब्रीह्यादित्वादिनिः ।
“वनमालामधाद्विष्णुर्भुवनानि चतुर्दश । पृथ्वी पीता वारि शुक्लं रक्तोऽग्निरसितो मरुत् ॥
नभो नीलं पञ्चवर्णा वनमाला हरेरिति " ॥ तस्या उपासनम् । ईश्वरभीष्टे तद्धर्मा ‘स्थेशभासपिसकसो वरच्' ।
गोपीगोपगवा वीतं सुरद्रुमतलाश्रितम् ।
दिव्यालंकरणोपेतं रत्नपङ्कजमध्यगम् ॥ गोपगोपाङ्गनावीतं गोपैर्गोपाङ्गनाभिश्च वीतं परिवेष्टितम् । *गोपीगोपगवा वीतमिति कैश्चित्पठ्यते तत्राभ्यर्हितत्वाद्गोपीपदस्य पूर्वनिपातः । गोपा हि प्रायेण स्त्रीनेत्रा भर्वन्तीति व्याख्यातम् । दिव्यालंकरणोपेतं दिव्यालंकरणानि कौस्तुभादीनि । रत्न
___ * आदर्शपुस्तकयोस्त्वयमेवोपलभ्यते। १ क. मौनवतैव । २ क. दि तु सान्तानानिपातित । ३ क. गोप्यो । ४ क. 'वति सुरेति ।
For Private And Personal