SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org गर्भोपनिषत् । १७९ मित्यर्थाद्याख्यातम् । आहारस्य चातुर्विध्यं कोष्ठाग्निव्याख्यानावसरे वक्ष्यति । ततः शरीरमित्येतद्व्य । कर्तव्यमवशिष्यते तदेतद्व्याकर्तुं पृच्छतिशरीरमिति कस्मात्, शरीरमिति कस्मात् । स्पष्टम् । उच्यत इति शेषः । अग्नित्रयशिखाभिः शीर्यमाणत्वादित्यभिप्रायेणाऽऽह the ज्ञानाग्निर्दर्शनाग्निः कोष्ठाग्निरिति तत्र कोष्ठाग्निर्नाम । ज्ञानाग्निः । तत्र त्रीणि स्थानानीत्यादिनोच्यमानं मानं ज्ञानं तदेव ब्रह्मज्ञानोत्पादेन देहस्य सकारणस्य विनाशकत्वादग्निरिव ज्ञानाग्निः । दर्शनाग्निर्दर्शनं विषयज्ञानं तदेव विषयप्राप्त्यप्राप्तिभ्यां हर्षविषादौ कुर्वच्छरीरस्याग्निरिव संतापकं दर्शनाग्निः । कोष्ठाग्निजठराग्निश्वतुर्विधाहारपाचकः प्रसिद्धः कलेवरविनाशहेतुः क्षुत्पिपासाकारी इति, अनेन प्रकारेण त्रिविधेनाग्निना विनाश्यत्वाच्छरीरमित्युच्यत इति शेषः । तत्र तेषु त्रिष्वग्निषु मध्ये | कोष्ठाग्निः । व्याख्यातम् । नाम प्रसिद्धः । प्रसिद्धिमाह इदानीं दर्शनाग्निमाह Acharya Shri Kailashsagarsuri Gyanmandir अशितपीतलेाचोष्यं पचतीति । अशितपीतलेह्यचोष्यम् । अशितं भोज्यमानलड्डुकादि । पीतं दुग्धनीरादि । लेह्यं दधिद्रवप्रचुरगुडमध्वादि । चोष्यं चूतफलरसाद्य शितपीतलेह्य चोप्यम् । अशितं पीतं चतुर्विधमन्नं नीरं चेत्यर्थः । पचति पाकं करोति । इति, अनेन प्रकारेण नामे स्यन्वयः । 6 For Private And Personal रूपादीनां दर्शनं करोति यस्तत्र त्रीणि स्थानानि भवन्ति हृदये दक्षिणाभिर्गार्हपत्यं मुखादाहवनीयं यजमानाय बुद्धिः पत्नी निधाय दीक्षां संतोषं बुद्धीन्द्रियाणि यज्ञपात्राणि शिरः कपालं केशा दर्भा मुखमन्तर्वेदिः । रूपादीनां रूपरसगन्धस्पर्शशब्दानां दर्शनं साक्षात्कारं करोति स्पष्टम् । यो दर्शनाग्निरिति शेषः । तत्र तेष्वग्निषु मध्ये ज्ञानाग्निः कथ्यत इति शेषः । त्रीणि 1 स्थानानि भवन्ति । स्पष्टम् । ज्ञानाग्निरिति शेषः । हृदये हृदयकमले । दक्षिणाग्निदक्षिणाग्निमग्निविशेषम् । उदरे जठरे । गार्हपत्यं गार्हपत्याभिधमग्निम् | मुखात्, मुखे । आहवनीयमाहवनीयाभिधमग्निं यजमानाय ज्ञानाग्नेर्ज्ञातुर्यजमानत्वेन कल्पितस्यार्थे । बुद्धिर्बुद्धिम् । पत्नीं यागगृहकारिणीं निधाय स्थापयित्वा । हृदयादिषु दक्षिणाग्न्यादीन्परिकल्प्याऽऽत्मानं यजमानं बुद्धिं च स्वपत्नीं वक्ष्यमाणं च यथायोगं चिन्तयेदित्यर्थः । दीक्षां संतोषं दक्षिऽध्वर्युणा क्रियमाणः संस्कारो यज्ञप्रवृत्तिहेतुः ।
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy