________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गर्भोपनिषत् ।
१७७
जातस्यैव स्वीकृतमनुष्यादिशरीरस्यैव । मृतस्यैव परित्यक्तमनुष्यादिशरीरस्यैव । जन्म चैव पुनः पुनः । भूयो भूयो जन्मैव चकारान्मरणमपि । अयमर्थः । जातस्य मरणमवश्यं भावि मृतस्य जन्मापि ततो न जननेन नापि मरणेन संसारनिवृत्तिरिति । एवं चिन्तयन्भृशमुद्विग्न आह
अहो दुःखोदधौ मनो न पश्यामि प्रतिक्रियाम् ॥ ६ ॥
1
अहो खिन्नस्याऽऽत्मनः परस्य चासंबोधनमथवा निरुपायत्वावलोकनात्सखेदाश्चर्यार्थता । दुःखोदधौ यथा जलधौ दशसु दिक्षु मध्ये च जलमेव तद्वत्संसारोदधौ दुःखमेव ततोऽयं दुःखादधिस्तस्मिन् । मग्नो यथा नौनिमज्जने नौस्थो निरुपायो जनो जलधौ मज्जति तद्वच्छरीरेन्द्रियादीनां मज्जने दुःखोदधावुपायशून्योऽहमपि मनः । वेदाचार्यदृष्टिमन्तरेण पुरुषाकाररूपामस्य दुःखोदधिनिमज्जनस्य न पश्यामि प्रतिक्रियाम् । स्पष्टम् ॥ ६ ॥
यदि योन्यां प्रमुञ्चामि सांख्यं योगं वा समाश्रये । अशुभक्षयकर्तारं फलमुक्तिप्रदायिनम् ॥ ७ ॥
यतोऽस्य दुःखोदधेर्वेदाचार्यदृष्टिप्रतीकारः स च पूर्व जानताऽपि न कृतस्तत इतः परं यदि संभावनार्थः । प्रायेणास्माद्यो नियन्त्रान्मत्प्राणनिर्गमो दुर्लभोऽद्य कथंचिद्योन्यां योनाववस्थितमात्मानं केनचिददृष्टेन प्रमुञ्चामि योनेवहिर्निर्गच्छामीत्यर्थः । सांख्यं सम्यगात्मैक्यप्रथमकथनपरं ज्ञानं यस्मिन्वेदान्तशास्त्र ऐक्यप्रकाशरूपं वा तत्सांख्यम् | योगं वा ब्रह्मात्मैक्यावगतिप्राप्त्युपायभूतं विविधवैदिककर्मरूपम् । वाशब्द उभयोरप्युपायोपेयत्वेन समुच्चयार्थः । समाश्रये सम्यगात्मसाक्षात्कारपर्यन्तमाश्रयणं कुर्वे । अशुभक्षयकर्तारमिदं योगस्य विशेषणम् । पापक्षयकारिणम् । फलमुक्तिप्रदायिनमशुभक्षये फलं सांख्यज्ञानमात्मसाक्षात्कारशिरस्कं ततो विमुक्तिरविद्यातत्कार्येभ्यो विमोक्ष एवं फलमुक्त्योः प्रदायी तं फलमुक्तिप्रदायिनम् ॥ ७ ॥
यदि योन्यां प्रमुञ्चामि तं प्रपद्ये महेश्वरम् । अशुभ क्षयकर्तारं फलमुक्तिमदायिनम् || ८ ||
यदि योन्यां प्रमुचामि । व्याख्यातम् । तं सर्वशास्त्रप्रसिद्धम् । प्रपद्येऽयमहमस्मीतिभावेन शरणं गच्छामि । महेश्वरमभ्यधिकनियन्तारं पिनाकपाणिमुमापतिम् । महेश्वरस्य विशेषणम् | अशुभक्षयकर्तारं फलमुक्तिप्रदायिनम् | व्याख्यातम् ॥ ८॥ यदि योन्यां प्रमुञ्चामि तं प्रपद्ये भगवन्तं नारायणं देवम् । अशुभक्षयकर्तारं फलमुक्तिप्रदायिनम् ॥ ९ ॥
यदि योन्यां प्रमुञ्चामि तं प्रपद्ये । व्याख्यातम् । भगवन्तं समग्रधर्मज्ञानवैराग्यैश्वर्य यशः श्रीमन्तम् । नारायणं जलशायिनं सर्वजीवचिन्त्रमविद्यादिदोषवर्जितमानन्दा
२३
For Private And Personal