________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शंकरानन्दविरचितदीपिकासमेताइदानी प्रासङ्गिक परिसमाप्य प्रकृतमेवाऽऽह
अथ नवमे मासि सर्वलक्षणसंपूर्णो भवति पूर्वजातीः स्मरति कृताकृतं च कर्म भवति । अथावयवसंपूर्त्यनन्तरम् । नवमे मासि । स्पष्टम् । सर्वलक्षणसंपूर्णः सर्वैर्लक्षगैर्वाक्कायमानसैः संपूर्णः परिपूर्णो ध्यानारूढ इव योगी । भवति । स्पष्टम् । पूर्वजातीरनादौ संसारे पूर्वगृहीतश्वशूकरक्रिमिकीटदेवमनुष्यादिशरीरजातीः । स्मरत्यहं श्वा सूकरो मनुष्योऽभूवमित्याद्यनन्तानि जन्मानि स्वानुभूतचराणि स्मरति । कृताकृतं च कर्म कृतं सुकृतमकृतं दुष्कृतम् । कृतं चाकृतं च कृताकृतम् । कर्म व्यापाररूपम् । चकारः स्मरतीतिपदसंबन्धार्थः । भवति कृताकृतकर्मस्मरणेन संतप्तगात्रो भवति ।
उत्तमे जन्मनि सुकृतं कृतं मया कष्टे तस्मिञ्जन्मनि कष्टं कृतं मयेत्यादिस्मरणेनैव कथं दुःखमित्यत आह
शुभाशुभं च विदन्ति ॥ ४ ॥ शुभाशुभं च शुभं पुण्यकर्मणः फलमशुभं पाप्मनः कर्मणः फलं दुःखम् । शुभं चाशुभं च शुभाशुभं चकारात्तत्साधनमप्याह । क्रिम्यादिकं कर्मफलावस्थं विदन्ति विन्दते सुखदुःखसाक्षात्कारं प्राप्नोतीत्यर्थः ॥ ४ ॥ पूर्वजातीः स्मरतीति यदुक्तं तदेतद्विवृणोति
नानायोनिसहस्राणि दृष्ट्वा चैव ततो मया ।
आहारा विविधा भुक्ताः पीताश्च विविधाः स्तनाः ॥५॥ - नानायोनिसहस्राणि । स्पष्टम् । दृष्ट्वा चैव, अनन्तानि स्तम्बादीनि ब्रह्मान्तानि शरीराणि प्राप्यैव । चकारात्तद्वहणपुण्यपापादिकमपि संप्राप्यैव । वस्तुतोऽसङ्गोदासीनस्य पुरुषस्य शरीरसंबन्धाभावात्तदर्शनमेव शरीरग्रहणमिति मन्वाना दृष्ट्वा चैवेत्याह श्रुतिः । ततो नानायोनिसहस्रप्राप्तेरनन्तरम् । कासुचित्सर्पदैवादियोनिषु प्रथमत एव । मया तत्तद्योनियन्त्राद्विनिर्गतेन । आहारा आहार्यन्त इति क्षुन्निवारकाः स्थावरजङ्गममांसभेदाः । विविधा मण्डूकचक्रकाद्याश्चतुर्विधा इत्यर्थः । भुक्ता भक्षिताः । पशुमनुष्यादिशरीरेषु योनियन्त्रविनिर्गमनानन्तरं प्रथमतः शुनीशूकरीचण्डाल्यादीनां पीताश्च विविधाः स्तनाः, अङ्गुलीपर्वाङ्गुल्यमेध्यपिण्डाद्याकारविचित्राः स्तनाः स्तनेऽहं मुखं प्रक्षिप्य पयः पूयास्राविण आस्वादिताः । चकाराल्लेह्यपेयचोप्यभोज्यरूपामध्यमूत्रपरिपाकाः स्थावरजङ्गमलोहितमांसादिरूपा आहारा विविधा भुक्ताः ॥ ५॥ न चात्र जनिर्वा मरणं वा प्रतीकार इत्याह
जातस्यैव मृतस्यैव जन्म चैव पुनः पुनः ।
For Private And Personal