________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गर्भोपनिषत् ।
१७५
करचरणा अदीर्घशरीराः । भवन्ति जायन्ते । उपलक्षणमेतत्पङ्ककुणिकाणबधिरादीनाम् । इदानीं युग्मायुत्पत्तौ निमित्तमाह
अन्योन्यवायुपरिपीडितानां शुक्रद्वैधे स्त्रिया योन्या युग्मा जायन्ते । अन्योन्यवायुपरिपीडितानां स्त्रीपुंसवीर्याणां परस्परापानवायुपरिपीडितानां शुक्लद्वैधे शुद्वयत्वादेः । स्त्रिया योन्या नार्या गुह्येन्द्रियात् । युग्माः स्त्रीपुंसद्वयरूपाः पुरुषद्वयरूपा वा प्रजाः । जायन्ते । स्पष्टम् ।
इदानीं जातस्य गर्भस्य पञ्चात्मकं शरीरं भवतीत्याह — पञ्चात्मकसमर्थः पञ्चात्मकेन चेतसाऽधिगन्धनसव ज्ञानाध्यानादक्षरमोंकारं चिन्तयति तदेतदेकाक्षरं ज्ञात्वा ।
1
पश्चात्मकसमर्थः । जातो बालः पृथिव्यादिपञ्चभूतशरीरो विषयादानसमर्थश्च पञ्चात्मकसमर्थः पञ्चात्मकेन पृथिव्यादिभूतपञ्चकविकारेण भूतपञ्चकविकारत्वं मनसः शब्दादिपञ्चकग्राहकत्वात् । अन्यथा शब्दाद्यन्यतमग्राहकत्वं श्रोत्रादिवत्स्यात् । चेतसाऽन्तःकरणेन । समर्थ इति समस्तं विच्छिद्यानुषञ्जनीयम् । न केवलं पञ्चात्मकः पञ्चात्मकेन चेतसा समर्थः किं त्वधिगन्धनसश्चाधिगन्धनासश्च गन्धमधिकृत्य नासिका यस्यासावधिगन्धना अधिगन्धना एवाधिगन्धनसः । चकारादधिरूपचक्षुरित्यादि । सर्वैरिन्द्रियैः सर्वविषयग्रहणसमर्थ इत्यर्थः । स चागण्यपुण्यपुअवशात्कथंचिदुत्पन्नवैराग्यो ज्ञानाच्छास्त्रत ओंकाराववोधात् । ध्यानादों कारोऽहमस्मीतिबोधसंततिरूपात्स्वाधीनान्तःकरणः | अक्षरं विनाशरहितं व्याप्ति। मन्तमानन्दात्मानं स्वाभिन्नम् । ओंकारमोंकाराभिधेयम् । चिन्तयति विजातीयप्रत्ययशून्यसजातीयप्रत्ययप्रवाहं करोति सर्वतस्तमेवावगच्छतीत्यर्थः । तत्परोक्षं शास्त्रप्रसिद्धम् । एतत्प्रत्यक्षम् । एकाक्षरमोंकाररूपमेकाक्षरम् । ज्ञात्वा सर्वभेदशून्यमात्मरूपेण साक्षात्कृत्य मुक्तो भवतीति शेषः । तस्मात्कष्टतममपि शरीरकं बुद्धिमतः परमपुरुषार्थकारणमित्यभिप्रायः ।
अपिचेदं शरीरकं चतुर्विंशतितत्त्वरूपमवगतमहं ब्रह्मास्मीतिबोधकारणं भवतीत्यभिप्रायेणाऽऽह—
अष्टौ प्रकृतयः षोडश विकाराः शरीरे तस्यैव देहिनाम् ।
अष्टावष्टसंख्याकाः । प्रकृतयः प्रकृतिशब्दवाच्या भूम्यप्तेजोवाय्वाकाशमनोबुद्धयहंकाराः । षोडश षोडशसंख्याका विकारा विकारशब्दाभिधेया दशेन्द्रियाणि पञ्च प्राणाश्चित्तं चेति । शरीरे विनाशिनि चतुर्विधाहारविकारे । तिष्ठन्तीति शेषः । तस्यैवाष्टमे मासि संपूर्णावयवस्य गर्भस्य योनियन्त्रांद्वहिस्थितस्यान्तर्गतस्य वा नत्वन्यस्य कलिलत्वाद्यवस्थस्य । देहिनां देहिनः ।
For Private And Personal