SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १७४ शंकरानन्दविरचितदीपिकासमेताकठिनो नारिकेलान्तर्गोलकवद्भवति । मासद्वयेन । स्पष्टम् । गोलकमावात्प्रच्युतश्चतुरस्रो मांसपिण्डः शिरो मस्तकं कुरुते । मासत्रयेण । स्पष्टम् । पादप्रदेशः, अधःकोणद्वयाचरणद्वयप्रदेशो दण्डाकारः । भवति । स्पष्टम् । ऊर्ध्वकोणद्वयात्पादप्रदेशवद्धस्तप्रदेशोऽपि भवतीत्यनुक्तमपि द्रष्टव्यम् । अथ चतुःशाखे चतुरस्रमस्तकशिखरमांसपिण्डे व्यवस्थिते तदनन्तरं चतुर्थे मासे । स्पष्टम् । अङ्गुल्यजठरकटिप्रदेशः, अङ्गुलीनामयमङ्गुल्यो हस्तपादतलप्रदेश इत्यर्थः । जठरमुदरं यद्यपि पूर्वमप्यन्तरधिविद्यते तथाऽपि चतुर्थे मासे मुषिरबाहुल्यं भवतीत्येतदभिप्रायं जठरवचनम् । कटिपदेशः पादमूलयोरुन्नतौ मांसपिण्डौ जठरसंगतौ । अङ्गुल्यजठरकटीनां प्रदेशः स्थानविशेषो भवति । पञ्चमे मासे । स्पष्टम् । पृष्ठवंशः शरीरशालायाः पृष्ठवंशे स्थितः पायुप्रदेशमारभ्याऽऽगलं दण्डायमानो वंशवदस्थिपृष्ठवंशो भवति । षष्ठे मासे । स्पष्टम् । नासाक्षिणीश्रोत्राणि नासा नासापुटद्वयम् । अक्षिणी चक्षुर्गोलके । अत्र समासमध्ये विभक्तेरलोपश्चान्दसः । श्रोत्रे कर्णविवरे नासा चाक्षिणी च श्रोत्रे च नासाक्षिणीश्रोत्राणि । उपलक्षणमिदमास्यपायुशिश्ननाभ्यादिविवराणामन्येन्द्रियाधिष्ठानानां च । भवन्ति । सप्तमे मासे । स्पष्टम् । जीवन प्राणधारकेण । संयुक्तः संबद्धः सुखदुःखाभिज्ञ इत्यर्थः । भवति । अष्टमे मासे । स्पष्टम् । सर्वसंपूर्णः सर्वैरङ्गैरुपाङ्गैः साधिष्ठानरिन्द्रियैश्च महाराज इव प्रकृतिभिः सम्यक्पूर्णः संभृतः । भवति । स्पष्टम् । द्वियोनिमित्येतद्व्याकरोति पितू रेतोतिरिक्तात्पुरुषो भवति । पितुर्जनकस्य । रेतोतिरिक्ताद्रेतोतिरेकाद्रेतआधिक्यात् । पुरुषो भवति । सष्टम् । यथा पितू रेतोतिरेकात्पुंगर्भस्तथा मातुर्वीर्याधिक्यास्त्रीगर्भ इत्याह __मातू रेतोतिरिक्तात्त्रियो भवन्ति, मातू रेतोतिरिक्ताज्जनन्या वीर्यातिरेकात् । स्त्रियो योषितो भवन्ति । ___ उभयोजितुल्यत्वानपुंसको भवति । उभयोर्मातापित्रो/जतुल्यत्वाद्वीर्यसाम्यानपुंसको गर्भः स्त्रीपुंसलिङ्गशून्यः । भवति । स्पष्टम् । . व्याकुलितमनसोऽन्धाः खञ्जाः कुब्जा वामना भवन्ति, - व्याकुलितमनसः कुतश्चिनिमित्तात्कलुषीकृतान्तःकरणान्मातापित्रोरन्यतरस्मादुभाभ्यां वा । अन्धा रूपसाक्षात्कारकरणशून्याः । खञ्जा वामदक्षिणयोरेन्यतरपादहीनाः । कुब्जा वक्रीभूतशरीराः पृष्ठवंशविधृतमांसास्थिलिङ्गाः । वामनाः, अल्फ For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy