________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गर्भोपनिषत् ।
१७३ मतो जन्तुः स्वजनकस्य हृदि सर्वगात्रेभ्यो विनिर्गतरेतरूपेण हृदयकमले व्यवस्था व्यवस्थाविशेषेणावस्थानं नयति प्राप्नोति । इदं सामान्यम् । इदानी हृदि व्यवस्थाया अपि प्राप्तिं दर्शयितुमाहहृदयेभ्योऽन्तराऽग्निरग्निस्थाने पित्रं पित्तस्थाने वायुर्वायुस्थाने
हृदयं प्राजापत्याक्रमात् ॥ ३ ॥ हृदयेभ्यः । हृदयशब्देन हृदययोग्या जन्तवोऽभिधीयन्ते । तेषु पुराकृतपुण्यपापानुसारेण स्वर्गनरकादिम्यो यथाशास्त्रं समागतोऽधिष्ठानं करोति तत्र च तेष्वन्नरूपेणावस्थितेषु रेतःसिचाऽद्यमानेषु तेभ्यः । अन्तरा रेतःसिग्मध्ये । अग्निः, देहान्तःप्रवेशाद्रेतःसिग्जाठरजातवेदसं प्राप्नोति तत्सदृशः संस्तदभिप्रायमिदमग्निः । अनन्तरम. निस्थाने यावदापाकमग्निसदृशोऽग्निस्थाने स्थित्वाऽनन्तरं पित्तं पित्तसदृशः सन्पित्तं प्राप्नोति । अनन्तरं पित्तस्थाने पित्तसदृशः सन्पित्तस्थाने कंचित्कालं स्थित्वा वायुतिरूपं दोषं तत्सदृशः सन्प्राप्नोति । अनन्तरं वायुस्थाने वायुसदृशः सन्वायुस्थाने कंचित्कालं स्थित्वा पितुर्योषित्पिशाचीस्मरणदर्शनादिना संक्षुब्धहृदयस्य सर्वगात्रेभ्यः श्लेप्मबहुलरेतसा साधू हृदयं हृदयपुण्डरीकं प्राप्नोतीति शेषः । एवं पितुर्हृदये स्थित्वा प्राजापत्यात्प्रजापतेरयं प्राजापत्यः प्रनाकामेन विधात्राऽनुष्ठितस्तस्मात्कमात्संचरणाघोषितोऽधोपहासादित्यर्थः ॥ ३ ॥ तत्रापि कालविशेषनियममाह
ऋतुकाले प्रयोग एकरात्रोषितं कलिलं भवति सप्तरात्रोषितं बुबुदं भवत्यर्धमासाभ्यन्तरेण पिण्डो भवति मासाभ्यन्तरेण कठिनो भवति मासद्वयेन शिरः कुरुते मासत्रयेण पादप्रदेशो भवत्यथ चतुर्थे मासेऽङ्गुल्यजठरकटिप्रदेशो भवति पञ्चमे मासे पृष्ठवंशो भवति षष्ठे मासे नासाक्षिणीश्रोत्राणि भवन्ति सप्तमे मासे जीवेन संयुक्तो भवत्यष्टमे मासे सर्वसंपूर्णो भवति । ऋतुकाले यदा स्वनाया पुष्पवती स्यात्तस्मिन्काले समनन्तरं शुभे दिवस इत्यर्थः । प्रयोगः स्वहृदये समागतस्य गर्भस्य प्रकर्षेण योगः स्वभार्यायोनौ प्रक्षेप इत्यर्थः । एकरात्रोषितं तदेतःसिचा योनौ निषिक्तं रेतः शोणितेन मिलितं गर्भाशयं प्रविष्टमेकेनाहोरात्रेणोषितं निवासं प्राप्तमेकरात्रोषितं सानुशय्यनुशयिकर्मवशाद्गर्भमरुता शोषं नीयमानं गर्भाग्निना च पच्यमानं कलिलं पिष्टकमिव नीरे प्रक्षिप्तं बन्धमागच्छादौ लग्नं तादृशम् । भवति । स्पष्टम् । सप्तरात्रोषितं सप्ताहोरात्रोषितं सप्तरात्रोषितम् । बुबुदं कुक्कुटाण्डाकारं बुबुदवददृढावयवम् । भवति । स्पष्टम् । अर्धमासाभ्यन्तरेण । पक्षस्य मध्ये पिण्डो दृढावयवो विल्वाकारो गोलको भवति । मासाभ्यन्तरेण । स्पष्टम् ।
For Private And Personal