SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॐ तत्सब्रह्मणे नमः। अथ गर्मोपनिषत् । reser शंकरानन्दविरचितदीपिकासमेता । संसारदुर्वैतरणीनिमग्नान्निरीक्ष्य सर्वान्बहुधाऽस्मदादीन् । मातेव पुत्रान्वृणया श्रुतिर्नः प्राहेदमत्र त्यजताभिमानम् ।। १ ॥ गर्भोपनिषदो व्याख्यां करिष्येऽस्मिञ्शरीरके । अहंबुद्धिहरां तस्याः करणात्तुप्यताद्धरः ॥ २ ॥ सर्वोपनिषदां संबन्धादिचतुष्टयस्य साधारण्यान्न तत्पृथग्वर्णनीयम् । अत्र तु सत्यप्युपनिषत्साधारण्ये शरीरके वैराग्यं विशेषतः प्रतिपाद्यते ततः शरीरमेवोररीकृत्याऽऽह ॐ भद्रं कर्णेभिः सह नाविति शान्तिः ॥ ॐ पञ्चात्मकं पञ्चसु वर्तमानं षडाश्रयं षड्गुणयोगयुक्तम् ॥ तं सप्तधातुं त्रिमलं द्वियोनि चतुर्विधाहारमयं शरीरम् ॥ १ ॥ पञ्चात्मकं पञ्च पृथिव्यप्तेजोवाय्वाकाशा आत्मनः स्वरूपमुपादानं वा यस्य तत्पञ्चात्मकम् । पञ्चसु शब्दस्पर्शरूपरसगन्धेषु वक्तव्यादानगतिविहरणानन्देषु च विषयेषु चक्षुःश्रोत्रघ्राणरसनत्वग्वाक्पाणिपादपायूपस्थेषु च निमित्तेषु । वर्तमानं वृत्तिं कुर्वन् । षडाश्रयं षण्मधुराम्रलवणतिक्तकटुकषायास्त्वगसृङ्मांसमज्जास्थिशुक्लहेतवः स्तम्भ इवाऽऽश्रया यस्य शरीरस्य तत्पडाश्रयम् । षड्गुणयोगयुक्तं षडशनायापिपासाशोकमोहजरामरणलक्षणा गुणास्तेषां योगः संबन्धो मनःषष्ठानामिन्द्रियाणां वा गुणा ज्ञानानि तैयोग: षड्गुणयोगस्तेन युक्तं संबद्धं षड्गुणयोगयुक्तम् । तं तद्वक्ष्यमाणम् । सप्तधातुं सप्त त्वगसमांसदोस्थिमज्जाशुक्लरूपा धातवो धारका गृहस्येव स्तम्भा यस्य तत्सप्तधातु सप्तधात्वेव सप्तधातुम् । त्रिमलं त्रयो लोहितशुक्लकृष्णरूपाः शरीरारम्भकबीजस्योपष्टम्भकाः सत्त्वरजस्तमःशब्दाभिधेयाः शुक्लशोणिततत्संबन्धा वा पुण्यपापव्यामिश्ररूपा वा मूत्रपुरीषशरीरारम्भकरूपा वा मला इव हेया यस्य तत्रिमलम् । द्वियोनि द्वियोनि द्वे पुण्यपापे समसुखदुःखसंस्कारे शुक्रशोणिते वा योनी कारणे यस्य तद्वियोनि द्वियोन्येव द्वियोनिम् । चतुर्विधाहारमयं लेह्यपेयचोप्यभोज्यैश्चतुर्भिः प्रकारैर्वर्तमानमन्नमाहार्यमाणं चतुर्विधाहारस्तस्य विकारश्चतुर्विधाहारमयम् । शरीरं शीर्यत इति शरीरं विनाशि कलेवरम् ॥ १॥ For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy