________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१६१
गर्भोपनिषत् । वर्तन्त इत्यर्थः । एतत्कफस्याप्युपलक्षणं दोषाणां वातपित्तक कानां दूष्यापरनामकधातुसमानदेशत्वस्यौचित्यात् । ततः किमित्यत आह
वायुस्थाने हृदयं प्राजापत्यात्क्रमात् ॥ ३ ॥ हृदयं लिङ्गं प्राजापत्यात्क्रमात्प्रवर्तते। प्राजापत्यः क्रमो यथा । स आत्मानं द्वेधाऽपातयत् । पतिश्च पत्नी चाभवतामिति । प्रजापतियथैकः सन्द्विधा भूतस्तथा हृदयोपलक्षितं लिङ्गमपि द्विधा भवति वायवाघातेन दीपादिव प्रदीपः कुसुमादिव गन्ध इति न समूलोत्क्रमश्वाऽऽशङ्कनीयस्तेन शरीरं वातपित्तकफात्मकमुच्यते । अत्रार्थे हृदयादधिजायस इति मन्त्रो लिङ्गम् । यद्वा प्राजापत्यः क्रमो धूमादिमार्गः प्रश्ने संवत्सरो वै प्रजापतिरित्यादिना प्रजापतित्रतोक्तो द्रष्टव्यः । स चाऽऽरोहावरोहक्रमः ‘तद्य इत्यं विदुः ' इत्यादिश्छान्दोग्य उक्तः ।। गीतायां च-"धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ।
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते” इति ॥ प्राजापत्यात्क्रमात्पञ्चम्यामाहुतावृतुकाले प्रयोगादित्यन्वयः । एतेन त्रिमलं कस्मादिति प्रश्न उत्तरितः कफादीनां श्लेष्मादिमलरूपत्वात् ॥ ३ ॥
ऋतुकाले प्रयोगादेकरात्रोषितं कलिलं भवति सप्तरात्रोषितं बुद्बुदं भवत्यर्धमासाभ्यन्तरेण पिण्डो भवति मासाभ्यन्तरेण कठिनो भवति मासद्वयेन शिरः कुरुते मासत्रयेण पादप्रदेशो भवत्यथ चतुर्थे मासेऽङ्गुल्यजठरकटिप्रदेशो भवति पञ्चमे मासे पृष्ठवंशो भवति षष्ठे मासे नासाक्षिणीश्रोत्राणि भवन्ति सप्तमे मासे जीवेन संयुक्तो भवत्यष्टमे मासे सर्वसंपूर्णो भवति । ऋतुकाल इति । अनृतुकाले तु योषिद्धातुपोषकं पुंबीजं भवति । तेन पुंसः संप्र. योगे स्त्रियास्तेजोविशेषो दृश्यते । असंभोगे च जरा दृश्यते । कलिलमीषद्धनं बुबुदं वर्तुलम् । यास्केन तु सूक्ष्मेक्षिका कृता । तद्यथा-"एकरात्रोषितं कलिलं भवति पञ्चरात्राबुद्बुदः सप्तरात्रात्पेशी द्विःसप्तरात्रादर्बुदः पञ्चविंशतिरात्रः स्वस्थितो घनो भवति मासमात्रात्कठिनो भवति द्विमासाभ्यन्तरे शिरः संपद्यते मासत्रयेण ग्रीवाव्या. देशो मासचतुष्टयेन त्वग्व्यादेशः पञ्चमे मासे नखरोमव्यादेशः षष्ठे मुखनासिकाक्षिश्रोत्रं च संभवति सप्तमे चलनसमर्थो भवत्यष्टमे बुद्धया व्यवस्यति नवमे सर्वाङ्गसंपूर्णो भवति" इति । जीवेन जीवलिङ्गेन चलनवलनादिना प्राग्नीवाभावे वृद्धयसंभवात् ।
पितू रेतोतिरिक्तात्पुरुषो भवति मातू रेतोतिरिक्तास्त्रियो भव.
१ च. 'युर्मे है। २ क. ख. ग °ले संप्रयोग एक । ३ च. कललं। ४ क. च. पितरे' । ५ क. च मातृरे'।
२१
For Private And Personal